________________ 234 दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिशिका / त्यस्यावेदनात् प्रत्यक्षयोग्यानां शब्दानां प्रत्यक्षजननशक्तथा ग्रहणस्य सम्भवात्, अत एव श्रोत्रेण रूपं वेत्ति इत्यपि सङ्गतम् , श्रोत्रेणत्यस्य तत्प्रत्यक्षजननशक्तयेत्यर्थः, जिघ्रति इत्यनेन वेत्ति इत्यस्य वेदनात् प्रत्यक्षयोग्यावस्य च रूपे सम्भवात्, रूपमित्यनेनापि विषयमात्रस्यावबोधनम्, अत एव जिह्वयेत्यपि प्रत्यक्षजननशक्तयेत्यर्थकमिति, एतावता इन्द्रियमात्रप्रभवाशेषविषयावगाहिप्रत्यक्षवत्वं तस्यावेदितं भवति, ज्ञानेन्द्रिय-तद्विषयानियममुपदर्य कर्मेन्द्रियतद्विषयानियममुपदर्शयितुमाहपादैर्ब्रवीति, वचनादानविहरणोत्सर्गानन्दविषयकाणि वाक् पाणि-पाद-पायूपस्थानि कर्मेन्द्रियाणोति वागिन्द्रियविषयत्वमेव वचनस्य विहर गविषयकत्वमेव पादेन्द्रिय स्ये ते यथाश्रुतार्थो न सङ्गतिमेतीति पादै रित्यनेन मायायाः करणशक्त्येत्यर्थस्य, शिरसेत्यनेनापि तस्यावेदनात् , ततश्च पादैब्रवीतीति शिरसा याति, तिष्ठन्निति च उपपद्यते, ज्ञानेन्द्रिय-तद्विषयकर्मेन्द्रिय-तद्विषयान् प्रति नियमो यदस्योपपन्नतरः तदुपदर्शयति-सर्वेण सर्वकरणेन, सर्व सर्व वस्तु, कुरुते करोति, मन्यते च जानाति च एतावता सर्वकर्तृत्व-सर्वज्ञातृत्वे तस्यावेदिते इत्यर्थः // 8 // वाङ्-मनोगोचरस्य बन्धमोक्षानास्पदस्य चात्मनो वाङ्मनोविषयत्वं बन्धमोक्षास्पदत्वं च दर्शयति शब्दातीतः कथ्यते वावदकै ___ निातीतो ज्ञायते ज्ञानविद्भिः। बन्धातीतो बध्यते क्लेशपाशै मोक्षातीतो मुच्यते निर्विकल्पः // 9 // शब्दातीत इति / ब्रह्मगो निर्गुणत्वं सगुणत्वं च पूर्वमभिहितं तत्र निर्गुणत्वमवलम्ब्य शब्दातीतः शब्दप्रवृत्तिनिमित्तस्य कस्यचिद् धर्मस्य शुद्धचैतन्यलक्षणनिर्गुणात्मन्यभावाच्छब्दाप्रतिपाद्यः / “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (ते. उ० 2 / 9) इति श्रुत्या शब्दातीतत्वस्य ब्रह्मणि प्रसिद्धः, कथ्यते शब्देन प्रतिपाद्यते, वावदकैः अतिशयितवचनलम्पटैः, ज्ञानातीतः सविकल्पक. ज्ञानाविषयः निधर्मकस्य ब्रह्मणः किञ्चित्प्रकारकज्ञानविषयत्वासम्भवात्, ज्ञायते