________________ दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / 233 नं चास्यान्यत् कारणं सर्गसिद्धौ न चात्मानं सृजते नापि चान्यान् // 7 // सृष्ट्वेति / सृष्ट्वा सृष्ट्वा विश्वमुत्पाद्योत्पाद्य, स्वयमेव स्रष्टस्वरूप आत्मैव, उपभुङ्क्ते भुनक्ति, च पुनः, सर्वोऽयं भूतसर्गः अशेषोऽप्युपलभ्यमानो भू-जल-तेजो-वाय्वाकाशात्मकपञ्चभूतोत्पादः, यतश्च यस्मात् पुनर्भवति, भूतोत्पत्तिकारणत्वमनेन दर्शित, भूतस्थितिप्रलयकारणत्वमप्यनेनापलक्षितम्, अस्य आत्मनः, सर्गसिद्धौ भूतोत्पादने, अन्यत् कारण आत्मभिन्न सहकारिकारणं, न च नैव समस्ति, निश्चयदृष्टया स्वाह-न चात्मानं सृजते अयमात्मा स्वरूपं नोत्पादयति आत्मस्वरूपस्य नित्यस्योत्पादासम्भवात्, च पुनः, अन्यान् भात्मभिन्नान्, नापि नैव, सृजते वस्तुत आत्मभिन्नस्याभावेन तदुत्पादासम्भवात् // 7 // ___ भस्यात्मनोऽनिन्द्रियन्वं प्रतिनियतेन्द्रियविषयग्राहकत्वमन्तरेणैवेन्द्रिय जज्ञानवत्त्वं कर्मेन्द्रियप्रतिनियतविषयाभावश्चोपदर्शयति निरिन्द्रियश्चक्षुषा वेत्ति शब्दान् श्रोत्रेण रूपं जिघ्रति जिह्वया च / पादैब्रवीति शिरसा याति तिष्ठन् ___ सर्वेण सर्वं कुरुते मन्यते च // 8 // निरिन्द्रिय इति। निरिन्द्रियः इन्द्रियरहित इत्यर्थः, चक्षुषा चक्षुरिन्द्रियेण, शब्दान् वेत्ति जानाति, अनिनिन्द्रियस्य चक्षुरेव नास्ति न च शब्दा. चक्षुरिन्द्रिययोग्या इति कथं चक्षुषा वेत्ति शब्दानीति नाशङ्कनीयम् / " अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः / स वेत्ति वेद्यं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुष महान्तम् // " (श्वे० उ० 3. 29) इत्यादि श्रुतेः, अघटित घटनापटीयसी मायालक्षणा, तस्य शक्तिरिति तत्सम्बन्धात् तस्य सेन्द्रियत्वं सर्वप्रत्यक्षवत्त्वमिति चक्षुषेत्यनेन प्रत्यक्षजननशक्त्ये