________________ 232 दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिशिका / चेत्, इत्थं यथा ब्रह्मणि न सत्ता तथा असत्तारूपोऽपि व्यावहारिकसत्त्वलक्षणो धर्मो न विद्यते इत्यसत्त्वाभाव एव ब्रह्मस्वरूपं ब्रह्म सदिति व्यपदेशनिबन्धनम्, तथाऽज्ञानत्वाभाव एव ब्रह्मणि चिद्व्यपदेशनिबन्धनम्, तथाऽनानन्दत्वाभाव एव ब्रह्मस्वरूपतया ब्रह्मणि आनन्द इति व्यपदेशनिबन्धम्, तथाऽनानन्दस्वाभाव एव ब्रह्मस्वरूतया ब्रह्मणि आनन्द इति व्यपदेशनिबन्धनम् , तथा सतत्त्व इति व्यावहारिकतद्धर्मकल्पनाधिकरणमित्यर्थः, निरञ्जनः, अञ्जनं राग-द्वेषादिकभाविकं तेन रहितः, तथा रञ्जनः लोकरञ्जनार्थं रागादिभाव 'यः प्रकारः' इत्यस्य स्थाने 'निःप्रकारः' इति पाठो युक्तः / निर्गतः प्रकारोऽ. वान्तरमेदो यस्मात् स निष्प्रकारोऽवान्तरभेदरहितः, गुणात्मकः सत्त्व-रजस्तमो. गुणात्मकमायायास्तादात्म्याध्यासाद् गुणात्मकः, तत्र सत्त्वगुणावच्छिन्नं चैतन्यं विष्णुः, रजोगुणावच्छिन्नं चैतन्यं ब्रह्म, तमोगुणावच्छिन्नं चैतन्यं महेश्वरः, सामान्यतो मायावच्छिन्नं चैतन्यमीश्वर इति मायारूपोपाधेरैक्यादीश्वरस्यैक्य, तत्रैव मायायां सत्त्वगुणस्य प्रधान्यविषक्षया तदात्मकमायावच्छिन्नचैतन्यत्वं विष्णुत्वं, रजोगुणस्य प्राधान्यविवक्षया तदात्मकमायावच्छिन्नचैतन्यत्वं ब्रह्मत्वं, तमो गुणस्य प्राधान्यविवक्षया तदात्मकमायावच्छिन्नचैतन्यत्वं महेशत्वमित्येवं सगुणमुपाधिमेदादेकमपि त्रिरूपम्, निर्गुणः उपाधिरहित आत्मा सत्त्वादिगुणरहितः शुद्धचैतन्यव्यपदेशभाक् निर्गुणत्वादेव, निष्प्रभावः मायाभेदाध्यासजनितसृष्टि-स्थिति-विलयलक्षणकार्यकारित्वात्मकप्रभावरहितः, विश्वेश्वरः मायालक्षणशक्तियोगाद् विश्वस्य जगत उत्पत्ति-स्थिति-लयान कत्तुमीष्टे इति, विश्वेश्वरः सर्वमयः, घट-पटायशेषपदार्थरूपेण विवत्तेनायमेवात्माऽवभाषते नान्यः कश्चन चकास्तीति, सर्वमयः पारमार्थिकदृष्ट्या जगदेव नास्तीति कुतस्तद्रूप आत्मा सत्य-मिथ्यास्वरूपयोरेकीकरणासम्भवादित्याह-न सर्व इति // 6 // प्रपञ्चकर्तृत्वप्रपञ्चभोक्तृत्वान्यासहकृतत्वात्मा स्रष्टत्वान्यास्रष्टत्वधर्मान् व्यवहारनिश्चयान्यतरदृष्टयुपपन्नानुपदर्शयति सृष्ट्वा सृष्ट्वा स्वयमेवोपभुङ्क्ते सर्वश्वायं भूतसों यतश्च /