SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / 231 सर्वद्वारा निभृता मृत्युपाशैः स्वयंप्रभानेकसहस्रपाः / यस्यां वेदाः शेरते यज्ञगर्भाः - सैषा गुहा गूहते सर्वमेतत् // 5 // सर्वद्वारेति / सर्वद्वारा सर्वतः द्वाराणि यस्यां सा, मृत्युपाशैः निभृता मृत्युबन्धनैः व्याप्ता, स्वयंप्रभा स्वयमेव प्रकर्षेण भासमाना, अनेकसहस्रपाः अनेकानि सहस्राणि पर्वाणि ग्रन्थयः सन्धयो विभागा वा पक्षा यस्याः सा अनेक सहस्रपाः / भावरणशक्ति-विक्षेपशक्तिभ्यां प्रथमतो द्विपर्वा माया, आवरणशक्तिश्चासत्त्वापादकावरणशक्त्यमानापादकशक्तिभ्यां द्विप्रकारा, प्रत्येकं साऽप्यात्रियमाणविषयानन्त्यादनन्ता विक्षेपशक्तिश्च सर्जनशक्तिः साऽपि सृज्यमानानन्त्यादनन्तेत्येव भावान्तरमेदाकलनेनानेकसहस्रपर्वा मायेति, यस्यां मायायां, वेदाः श्रुतयः, यज्ञगर्भाः यज्ञप्रतिपादकाः, शेरते तत्त्वजिज्ञासुभिर्हि साप्रधानत्वेनोपेक्षिताः सन्तः सुप्तपुरुषवत् सुखमवतिष्ठन्ते, सैषा मायास्वरूपा, गुहा गुहेवान्धकारप्रधाना, एतत् दृश्यमानं, सर्व जगदेव, गूहते रक्षति इन्यर्थः // 5 // वेदवेद्यमात्मनः स्वरूपमुपदर्शयतिभावाभावो निःस्वतत्त्वः [सतत्त्वो] निरञ्जनो [रञ्जनो] यः प्रकारः / गुणात्मको निर्गुणो निष्प्रभावो विश्वेश्वरः सर्वमयो न सर्वः // 6 // भावाभाव इति / भावाभावः भवतीति भावः सत्ता नैयायिकाद्युपगतपरसामान्यं तद्रूप इत्यर्थः, तथा अभावः वेदान्तिमतेऽभावस्याधिकरणस्वरूपत्वमिति सर्वाभाषो ब्रह्मात्मगतो ब्रह्मवेति, अत एव निःस्वतत्त्वः ब्रह्मणः स्वतत्त्वं सत्त्वं चित्त्वानन्दत्वं च तच्च निर्धर्मकब्रह्मणि धर्मस्वरूपं न विद्यत इति निःस्वतत्त्वः, तर्हि ब्रह्म सत् ब्रह्म चित् ब्रह्म आनन्द इति व्यपदेशः कथमिति
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy