________________ 230 दिवाकर कृता किरणावलीकलिता नवमी द्वात्रिंशिका / वत् तस्योत्पादासम्भवात् , सत्त्वं तु तस्य पारमार्थिकमात्मस्वरूपतयैव तेन रूपेण नित्यसतोऽपि तस्योत्पादासम्भवात् , उक्तं च- .. "नासतो विद्यते भावो नाभावो विद्यते सतः / उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः // 3 // इति कृतात्मज्ञानाभ्यासस्यत्र ज्ञानदाढाय वेदः प्रभवति, नान्यथेत्युपदर्शयतिएकायनशतात्मानमेकं विश्वात्मानममृतं जायमानम् / यस्तं न वेद किमृचा करिष्यति / यस्तं च वेद किमृचा करिष्यति ? // 4 // एकायनशतात्मानमिति / एकायनशतात्मानं एकमयनं गमनागमनद्वारं यस्य स एकायनः, एकमद्वितीयमयनमाधारभूत वा शतपदमिहानन्तसङ्ख्यावबोधकं शतमनन्तसङ्ख्यकं आत्मा स्वरूपं यस्य स शतात्मा, एकायनश्चासौ शतात्मा तम् , चैकायनशतात्मानम् एकमार्गानुगम्यमानाखिलाश्रयानन्तस्वरूपमित्यर्थः, एकम् अद्वितीयम् , “एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन।" इति श्रुतेः। विश्वात्मानं विश्वस्वरूपं तस्यैवैकस्य मायासहकारेण विश्वरूपेण विवर्त्तनम् , अमृतं अमर स्वतस्तस्यामृतत्वाद् , जायमानम् उत्पद्यमानम् , मायाकल्पितमावृतादिरूपेण भवनात् , तमेवम्भूतमात्मान, यः यः कश्चिन् , न वेद न जानाति, किमृचा करि यति ऋगिति वेदमात्रस्योपलक्षणं निखिलवेदाभ्यासेनापि न किञ्चित् करिष्यति, एतद्दाढर्यायैव यस्तं च वेद किमृचा करिष्यति इति पुनरप्युपादानमित्यर्थः, यस्तं वेदेति चतुर्थचरणे पाठे च यस्तद् विज्ञानवान् सोऽपि वेदैः किं करिष्यति इत्यर्थः, तद्विज्ञानार्थमेव वेदानामुग्योगात् तस्मिन् सति तदनुपयोगः इति, तद् वैयर्थ्यम् अधीतेष्वपि वेदेषु तदविज्ञाने च तेषां स्पष्टं वैयर्थ्य मिति भावः // 4 // ब्रह्मणो मायास्वरूपायां गुहायां प्रविष्टाः सर्वे पदार्थाः -तयैव संगूहिताः, शुद्धब्रह्मज्ञानेन विलीनायां मायायां सर्वे विलीयन्त इति मायासुरक्षितत्वं तेषामित्याशयेनाह