________________ दिवाकरकृता किरणावलीकलिता नवमी द्वात्रिंशिका / 229 एव आत्मैव, वेद जानाति, यदिहास्ति यद् इह जगति वर्तते एतत्कर्तृभूतं, तमेव वेद्यमात्मानमेव, वेद जानातीत्यर्थः / यथा स विश्वाधिष्ठानतया ख्यातोऽपि स्वयं विश्वमधितिष्ठति सर्वस्मिन् तस्य स्थितित्वात् तथैव यथा स सर्व विश्वं जानाति सर्वज्ञत्वात् तथा सर्व विश्वमपि तमेव जानाति तदतिरिक्तस्य ज्ञेयत्वाभावाद् इति तात्पर्यम् // 2 // विश्वात्मनोरन्योऽन्यं स्त्रष्तृत्वं सृज्यमानत्वाभावं चोपदर्शयतिस एवैतद् भुवनं सृजति विश्वरूपः तमेवैतत् सृजति भुवनं विश्वरूपम् / न चैवैनं सृजति कश्चिन्नित्यजातं न चासौ सृजति भुवनं नित्यजातम् // 3 // स एवेति / “विश्वरूपः स एव एतद् भुवनं सृजति, विश्वरूपं तमेवैतत् भुवनं सृजति, कश्चिन्नित्यजातमेनं न चैव सृजति, असौ नित्यजातं भुवनं न च सृजति" इत्यन्वयः / विश्वरूपः सर्वात्मकः, स एवात्मैव, एतद् भुवनं दृश्यमानं जगत्, सृजति "एकोऽहं बहु स्याम्” इति श्रुतेः / यदुत्पद्यते तत् सर्वं ब्रह्मैव सर्वस्य वस्तुनो ब्रह्मसत्तातिरिक्तसत्ताकत्वाभावादिति, विश्वरूपं चराचरात्मकं, तमेव आत्मानमेव, एतद भुवनं परिदृश्यमानं भुवनं कर्तृभूतम् , सृजति उत्पादयति, कर्तृकर्मणोरुभयोरपि ब्रह्मरूपत्वेन कर्तृभूतं ब्रह्मात्मकमेव जगत् कर्मभूतात्मस्वरूपतया परिणमत इति, वस्तुत एकस्यैव सत आत्मनो नित्यस्याविकारिणो न कर्तृत्व-कर्मत्वे सम्भवतः, कार्य-कारणभावस्य मेदनियतत्वात् नित्यस्य कार्यत्वायोगाच्चेत्याह-कश्चित् कोऽपि, नित्यजातं सर्वदा विद्यमानम् , एनमात्मानं, न चैव सृजति नोत्पादयत्येव, “न जायते म्रियते वा कदाचित् नायं भूत्वा भविता वापि भूयः / अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे // ' / इत्यादिवचनात् / असौ आत्मा, नित्यजातं सर्वदाऽवस्थितसत्ताक भुवनं जगत् , सृजति उत्पादयति / उत्पत्तेः पूर्व जगतोऽसत्त्वे शशशृङ्गादि