________________ 228 दिवाकर कृता किरणावलीकलिता नवमी द्वात्रिंशिका / "अजो नित्यः शाश्वतोऽयं पुराणः / " इत्यादिरूपेणोपनिषत्सु गीतायां च / अचरं स्थावरं, चरं चेतनं च, गर्भ गर्भ रूपेण स्वान्तःस्थितं, धत्ते धारयति, सृष्टिसमये स्वशक्तिभूतायां प्रकृतौ गर्भरूपेग चराचरमाधत्ते इति भावः / अस्य चराचररूपस्य गर्भस्य तद्धारकस्य वा, अध्यक्षम् अधोशितारं प्रेरकम् , अकलं निरवयवं, सर्वधान्य सकलसृष्टिबीजभूतं, वेदातोतं वेदेभ्योऽपि वाच्यत्वेनातिक्रान्तम् , तथापि वेद्यं वेत्तुं योग्यं (परमं ब्रह्म) यः वेद यः जानाति, सः स एव, वेद जानाति, नान्यो प्राकृतबलज्ञाता ज्ञानवत्त्वेन व्यपदेश्य इति भावः / अत्र द्वात्रिंशिकायां वेदानामुपनिषदां च सिद्धान्तभूता अर्थाः सूक्ष्मदृष्टया आलङ्कारिकभाषया च निबद्धा / विशेषतः श्वेताश्वतरोपनिषदो वाक्यान्यनुसृतानि / विशेष जिज्ञासुभिश्च उपनिषद एवावलोकनीया इति नेह तत्र तत्र विशिष्योपनिषदादिभिन्न प्रदर्श्यन्ते // 1 // वेदवेद्यत्वं विश्वात्मनोरनेकधा विद्यते तदेव क्रमेणकैकप्रकारोग्दर्शनेन भायवतिस एवैतद् विश्वमधितिष्ठत्येक स्तमेवैतं विश्वमधितिष्ठत्येकम् / स एवैतद् वेद यदिहास्ति वेयं तमेवैतद् वेद यदिहास्ति वेद्यम् // 2 // स एवेति। “स एवैक एतदवैश्वमधितिष्ठति तमेवैकमेतं विश्वमधितिष्ठति यदिहास्ति वेद्यं एतत् स एव वेद, यदिहास्ति एतत् तमेव वेद्यं वेद" इत्यन्वयः। पूर्वार्द्धन विश्वात्मनोरन्योऽन्यमधिष्ठानाधिष्ठेयभावः, उत्तरार्द्धन तयोरन्योऽन्यं वेद्य-वेदकभाषश्च दर्शितः / स एव आत्मैव, एकोऽद्वितीयः, एतद विश्वं प्रत्यक्षं जगत्, अधितिष्ठति व्याप्यावतिष्ठते, “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।” इति वचनात् अथवा एतद्विश्वमस्मिन्नेव प्रकल्पितमिति भ्रमाधिष्ठानत्वादात्मा विश्वमधितिष्ठतीति, तमेवैकमेतं तमात्मानमेवाद्वितीयं प्राप्तम् , विश्वं जगत्कर्तृ, अधितिष्ठति अधिकृन्याश्रित्य तिष्ठति वर्तते, यत् यत् किमपि, इह जगति, अस्ति विद्यते, वेद्य ज्ञानक्रियाकम एतद्वि वस्थितं वस्तु,स