________________ वेदवादाख्या नवमी द्वात्रिंशिका। युक्तिवातसमाश्रितेयमुदिता वीरस्तुतिः सर्वथा सर्वार्था नहि किन्तु सर्वघटना स्याद्वादतो यन्त्रिता / . सर्वार्थो ननु सर्व एव नियतः शब्दः प्रभोर्वाचको लावण्येन विलोकितोऽर्थगतितः स्याद् वै स्तुति विक // 1 // वेदवेद्यार्थविषयज्ञातारमुपदर्शयतिअजः पतङ्गः शबलो विश्वमयो धत्ते गर्भमचरं चरं च / योऽस्याध्यक्षमकलं सर्वधान्यं वेदातीतं वेद वेद्यं स वेद // 1 // अजः पतङ्ग इति / “पतङ्गः शबल: विश्वमयः अजः अचरं चरं च गर्भ धत्ते अस्य अध्यक्षम् अकलं सर्वधान्यं वेदानीतं वेद्यं यः वेद स वेद" इत्यन्वयः / चेदाभिमतसगुण-निर्गुणब्रह्मणोनिमनेन पद्येन प्रशस्यते / पतङ्गः पतन् गच्छतीत्यतः पक्षी, तत्साम्येन विवक्षितः, जीवेश्वरयोः पक्षित्वेन रूपणं वेदेऽपि श्रयते "द्रा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्व जाते / तयोरेकः पिष्पलं स्वाद्वत्ति अनश्नन् अन्योऽभिचाकशीति // " इत्यादौ, शबलः मायया शबलितः चित्रितः / विश्वमयः स्वस्वरूपेण विश्वं च्याप्नुवन् विश्वभावमुपगतः, अजः न जायते जन्माख्यं भावविकारमनुभवतीति सः, स चात्र हिरण्यगर्भो गृह्यते, भवति च ताटस्थ्येन चराचरगर्भाधायकत्वेन, तस्य लौकिकाजसाम्यम् / वेदे च अजशब्देन मायाशबलं चैतन्यम्, अजाशब्देन च माया कथ्यते- "अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः / / अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगाम जोऽन्यः // " इति / अजश्च परब्रह्मापि कथ्यते