________________ 226 दिवाकरकृता किरणावलौकलिता अष्टमी द्वात्रिशिका / निग्रहस्थानावाप्तिजनितानध्यवस्यति निश्चिनोतीति परिनिग्रहाध्यवसितः यद्यहमेंतद्विषये इत्थं ब्रवीमि तीनेन निग्रहस्थानेन निगृहीतोऽहं स्यामित्यादिनिश्चयवान्, वादी, तत् तस्मात् चित्तैकाग्रयं मनस एकाग्रत्वं प्रस्तुतविषयातिरिक्तविषयानालिङ्गितमनस्कत्वमिति यावत् , उपयाति प्राप्नोति, यदि तत् चित्तैकाग्र्यम् , वैराग्येण विषयविरकत्वेन, स्यात् भवेत् , तदा चिरेण चिरकालेन 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति वचनात् शिव पदं मोक्षस्थानम् , उपयातु प्राप्नोतु इत्यर्थः // 25 // विरक्तस्य वादिनो विचारमुपदर्शयतिएकमपि सर्वपर्ययनिर्वचनीयं यदा न वेत्त्यर्थम् / मां प्रत्यहमिति गर्वः स्वस्थस्य न युक्त इति पुंसः // 26 // एकमपीति / एकमपि अस्य अर्थमित्यनेनान्वयः-सर्वपर्ययनिर्वचनीय सर्वैः स्व-परपर्ययैर्निर्ववतुं योग्यम् , एकमपि द्रव्यात्मकमर्थम् , यदा छद्मस्थावस्थायां, न वेत्ति न जानाति तदा मां प्रति छद्मस्थत्वेन स्वसदृशं, मां प्रति अहमितिगर्वः अहं सर्वे जानामि न त्वं किमपि जानासि तत् किं त्वं विकत्थसे इत्यादि गर्वोऽभिमानः, स्वस्थस्य स्वस्वरूपव्यवस्थितस्य, पुंसः पुरुषस्य, न युक्तः न समीचीनः, तथा च पिशाचादिग्रस्तो मदोन्मत्तो वा पुमानहमित्यभिमानं कर्तुमर्हति न तु स्वस्य इत्यर्थः // 26 // [इतः परमार्याबद्धं न दृष्ट वरमतस्तद्वयाख्यानाभावेन न्यूनतापादकः // ] एकव्यक्तिकृतं विवेचनमिदं न स्यात् कथान्तर्गतं तत्त्वाख़्यानपरं परन्तु कृतिनस्तत्स्यादभीष्टप्रदम् / एतस्यापि परीक्षयाऽध्यवसितियुज्येत वादाश्रिता वादिवातकृतादरा भवतु सा नव्या कथा संस्तुता // 1 // इति वादाख्याऽष्टमी द्वात्रिशिका समाप्ता //