SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता अष्टमी द्वात्रिंशिका। 225 विनयेति / विनयमधुरोक्तिनिर्ममम् विनयो नम्रीभवनाद्यावेदननर्मयुक्त मधुरं कर्णप्रिय उक्तिर्वचन निर्ममं ममतारहितमहङ्कारविवर्जितं यत्र विनयमधुरोक्तिनिर्ममत्वं तद्विनयमधुरोक्तिनिर्ममं, एतादृशं वाक्यम् असारमपि तत्त्वरहितमपि, आस्पदं स्थानं, लभते प्राप्नोति, एतादृशं वादिनो वक्यमादरेण श्रृगोति जनः, मुनेरपि साधोरपि, सारमपि तत्त्वप्रतिपादकमपि, वचनं वाक्यं, गर्वदृष्ट गर्वेणाभिमानेनावलोकितं अभिमानाक्रान्तमिति यावत् , वायुः पवनः, वहति श्रोतृजनकर्णः परित्यज्यान्यत्र नयति-तद्वचनं कोऽपि श्रोतुमपि नोत्सहतइत् यर्थः // 23 // * धूर्तेस्तु तत्र या मीमांसा क्रियते तथा परस्परं कलह एव विवर्धते न तु तत्त्वनिर्णय इति कथानधिकरण एव तदित्याह पुरुषवचनोद्यतमुखैः काहलजनचित्तविभ्रमपिशाचैः / धृतैः कलहस्य कृतो मीमांसानामपरिवर्तः // 24 // पुरुषवचनोद्यतमुखैरिति / पुरुषवचनोधतमुखैः नाहं क्लोषो न वा स्त्री किन्त्वहं पुरुषः यद् यत् समीहितं तत् तत् कर्तुं समर्थ इत्यादि यत्पुरुषवचनं तत्रोद्यतं तद् वक्तुमभिमु मुखख वदनं येषां ते पुरुषवचनोद्यतमुखास्तैः, काहलजनचित्तविभ्रमपिशाचैः काहलजनः यद्वा तद्वा प्रवचनशीलः कोलाहलप्रियो जनः / तस्य चित्तविभ्रमे चित्तविक्षेपे पिशाचा इव पिशाचा यथा शरीरान्तःप्रविष्टाश्चित्तविक्षेप जनयन्ति तथा इमे इति काहलजनचित्तविभ्रमपिशाचास्तैः, एवंभूतैः धूतैः कलहस्य परस्परविरोधसमुद्भूतकलेः, मीमांसानामपरिवर्तः 'मीमांसासंज्ञक विपरिणामः कृतः / वेदस्य पूर्वमीमांसाभेदेन द्विविधाऽपि मीमांसाकलहविस्तार एवे. त्यर्थः // 24 / / वादिनो वैराग्यप्रभव चित्तैकाग्यं मोक्षप्रदमपि सम्भाव्यत इत्याह परिनिग्रहाध्यवसितः चित्तैकाग्र्यमुपयाति यद् वादी / ... यदि तत् स्याद् वैराग्येण चिरेण शिवपदमुपयातु // 25 // परिनिग्रहेति / परिनिग्रहाध्यवसितः परितो निग्रहान् प्रतिज्ञाहान्यादि 15
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy