________________ 224 दिवाकरकृता किरणावलीकलिता अष्टमी द्वात्रिंशिका / सर्वज्ञविषयसंस्थान् छद्मस्थो न प्रकाशयत्यर्थान् / . . नाश्चर्यमेतदत्यद्भुतं तु यत् किञ्चिदपि वेत्ति // 21 // सर्वज्ञेति / “सर्वज्ञविषयसंस्थानान् छद्मस्थो न प्रकाशयति एतदाश्चयं न, यत् किञ्चिदपि वेत्ति तु अत्यद्भुतम्" इत्यन्वयः / सर्वज्ञविषयसंस्थान् सर्वज्ञतज्ज्ञानयोस्तादात्म्यात् सर्वज्ञज्ञानविषया अपि सर्वज्ञविषयास्तेषु संस्थान् सम्यक्प्रकारेणाविरुद्धतया व्यवस्थितान् , अर्थान् सकलद्रव्यसकलपर्यायरूपानन्, छद्मस्थः प्रमाता, न प्रकाशर्यात न स्पष्टमेव भासर्यात, एतत् अनन्तरोपदर्शितं वस्तु, नाश्चर्य आश्चर्यजनकं न भवति, यत् पुनः, किञ्चिदपि एकमपि यत् किञ्चित्, वेत्ति जानाति, तु पुनः, अत्यदभुतम् अत्यान्ताश्चर्यमेतत् 'जे एगं जाणई.' इत्यादिवचनात् सर्वविषयकज्ञाने सत्येवैकविषयकज्ञानस्य भावेन सर्वविषयकज्ञानरहिते एकविषयकज्ञानासंभवादित्यर्थः // 21 // यादृशो वादी सभाजनमनोरञ्जको भवति तमुपदर्शयति-- अविनिर्नयगम्भीरं पृष्टः पुरुषोत्तरो भवति वादी / परिचितगुणवात्सल्यः प्रीत्युत्सवमुत्तमं कुरुते // 22 // अविनिर्नयेति / अविनिर्नयगम्भीरं विशेषण निर्गतो नयाद् विनिर्नयः अविनिर्नयः, अविनिर्नयेन गम्भीरं अविनिर्नयगम्भीरं यथा स्यात् तथा, पृष्टः सन् नययुक्तगम्भीरवचनेन प्रतिवादिना पृष्टः सन्निति यावत्, वादी, पुरुषोत्तर पुरुषस्योत्तरवचनमिवोत्तरवचनं यस्य स पुरुषोत्तरवचनः निर्मातदोषासंस्पृष्टगुणसम्पृक्तसमाधानवचनविधातेति यावत्, भवति एवम्भूतो वादी, परिचितगुणवात्सल्यः परिचितं लोके प्रसिद्ध गुणेषु वात्सल्यं प्रकटितस्नेहशालित्वं यस्य स परिचितगुणवात्सल्यः, प्रीत्युत्सवं सभास्थजनेषु प्रोन्युत्सव, उत्तमं उन्नतं स्वस्य लोके विख्याति, कुरुते तनोतीत्यर्थः // 22 // / कस्यचिद् वादिनोवचनमसारमपि विनयाद्याकलितमुपादेयं भवति करयचित् पुनः सारमपि गर्वाद्याकलितमुपेक्षणीयं भवतीत्याह-- विनयमधुरोक्तिनिर्मममसारमपि वाक्यमास्पदं लभते / सारमपि गर्वदृष्टं वचनमपि मुनेर्वहति वायुः // 23 //