SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावलीकलिता अष्टमी द्वात्रिंशिका / 223 ज्ञेयः पर्ससद्धान्त इति / “स्वपक्षबलनिश्चयोपलब्ध्यर्थं ज्ञेयः परसिद्धान्तः, अभ्युपेत्य तु परपक्षक्षोभणं सतामनाचारः” इत्यन्वयः / स्वपक्षबलनिश्चयोपलब्ध्यर्थम्, स्वपक्षस्य बलं च निश्चयश्च स्वपक्षबलनिश्चयौ तयोरुपलब्ध्यर्थ प्राप्त्यर्थ स्वपक्षस्य यद्बलं येन स्वभ्युपगतसिद्धान्तः सुदृढनिरूढो भवति, स्वपक्षस्य निश्चयः इदमित्थमेव भवितुमर्हतोत्याकारकः तत्प्राप्त्यर्थमिति यावत्, ज्ञेयः ज्ञानविषयीकर्तव्यः, परसिद्धान्तः पराभ्युपगतपक्षः, अभ्युपेत्य तु परसिद्धान्तं ज्ञात्वा स्वीकृत्य च, परपक्षक्षोभणं परपक्षखण्डनं, सतां सज्जनानाम्, अनाचारः आचारविषयो न भवति, नहि सज्जनो यमेव ज्ञात्वाऽभ्युपगच्छति तमेव खण्डयति, अत एव जैनानां यद् यत् पक्षविज्ञानं तत् तत्खण्डनार्थं न, किन्तु तदुष्टभागमपनीय स्वपक्षे कथञ्चित्तद्योजनेन स्वपक्षपुष्टयर्थमेवेत्यर्थः // 19 // तत्तन्मतव्यवस्थापनायैव कथायाः प्रवृत्तिः न तु ततः सर्वेषामैकमत्यं सम्भवतीत्याह स्वहितायेवोत्थेयं को नानामतिविचेतनं लोकम् / यः सर्वज्ञैर्न कृतः शक्ष्यति तं कत्तुमेकमतम् // 20 // स्वहितायैवोत्थेयमिति / 'इयं स्वहितायैव उन्था, सर्वज्ञों न कृतः तमेकमत नानामतिविचेतन लोकं कर्तुं कः शक्ष्यति'' इत्यन्वयः। इयं वादकथालक्षणापरीक्षा, स्वहितायैव वादिनः प्रतिवादिनो वा स्वमतसिद्धिलक्षणहितार्थमेव, उत्था आरब्धा, सर्वज्ञः सर्वविषयकज्ञानशालिभिः, यः ऐकमत्यलक्षणोऽर्थः, न कृतः, तमेकमतं एकं मतं यस्य स एकमतः तम् , नानामतिविचेतनं नाना प्रकारिका या मतयः क्षणिकं एवं नित्यं सर्वमित्यादिकः ताभिः विचेतन विरुद्धचैतन्यशालिनम्, लोकं त्रिभुवगवर्तिलोकनिकरम्, कर्तुं विधातुं, कः शक्ष्यति न कोऽपि शक्ष्यतीत्यर्थः // 20 // .सर्वज्ञविषयाखिलार्थप्रकाशनसामर्थ्य छद्मस्थस्य नास्तीति नाश्चर्यम् , यत् किश्चिद् विषयकं ज्ञानमपि तस्योच्यते तदत्यन्ताश्चयं, वस्तुगत्यैकविषयकज्ञानस्यापि तस्मिन्नभावादित्याह
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy