________________ 222 दिवाकरकृता किरणावलीकलिता अष्टमी द्वाविंशिका / वृन्द, आक्रामन् आक्रमणं कुर्वन्, वैलक्ष्यविनोदनं निहीं कतया यद्वा तद्वा वल्गनं वैलक्ष्यं तेन विनोदन सभ्यजनमनोरञ्जनं, कुरुते करोतीत्यर्थः / / 16 // तथावादकथां न क्षमते दीर्घ निःश्वसिति मानभङ्गोष्णम् / रम्येऽप्यरतिज्वरितः सुहृत्स्वपि वज्रीकरणवाक्यः // 17 // वादकथामिति / वादकथां न क्षमते तत्त्वनिर्णयफलिका कथां कर्तुं न पारयति, मानभङ्गोष्णं मानस्य भङ्गेनोष्णं यथा स्यात् तथा, दीर्घ दीर्घकालं, निःश्वसिति श्वासोच्छवासं करोति, रम्येऽपि मनोहरेऽपि नृत्यगीतादौ, अरतिज्वरितः अप्रीतिलक्षणज्वरप्रपीडितः, सुहृत्स्वपि स्वामित्रबन्धुबर्गेऽध्वपि, वज्रीकरणवाक्यः वज्रप्रतिमवाक्योच्चारको भवतीत्यर्थः / / 17 / / तथादुःखमहङ्कारप्रभवमित्ययं सर्वतन्त्रसिद्धान्तः / अथ च तमेवारूढस्तत्त्वपरीक्षां किल करोति // 18 // दुःखेति / दुःखमहङ्कारप्रभवमिति अहं कुलीनः, अहं पण्डितः, मया ज्ञातानि सर्वशस्त्राणि, मत्तो वरिष्ठः कोऽपि नास्तीत्याकारकबुद्धिलक्षणाहङ्कारात् प्रभवं जनन यस्य तदहङ्कारप्रभवं दुःख-मन्यु-द्वेषानधीनद्वेषविषयः, इति एवंस्वरूपः, सर्वतन्त्र सिद्धान्त: अयं सर्वराद्धान्ताभ्यु गतोऽयमर्थः, अथ च एवमपि च, तमेव आरूढः तमेव आश्रितः, किल इति आश्चर्ये, आश्चर्यमेतत् यदुत अहङ्कारचूलामविरूडो वादी, तत्त्वपरीक्षां प्रश्नप्रतिविधानपुरस्सरं तत्त्वनिर्णय, करोति कुरुते, अहङ्कारारूढेन तत्त्वपरीक्षा कर्तुमशक्याऽपि तथाविधेन वादिना सा क्रियत इन्याश्चय सुव्यक्तम् / / 18 / / परसिद्धान्तज्ञानं स्वसिद्धान्तब लोपलब्धये युक्तं, न तु परपक्षक्षोभणायैव तद्विषयमित्युपदर्शयति ज्ञेयः परसिद्धान्तः स्वपक्षवलनिश्चयोपलब्ध्यर्थम् / परपक्षशोभणमभ्युपेत्य तु सतामनाचारः // 19 //