________________ दिवाकरकृता किरणावलीकलिता अष्टमी द्वात्रिंशिका / 221 मध्यस्थं चाटुप्रणतः भालादजनकवचनोपन्यासपूर्वकं प्रकर्षेण नमस्कृतिमान् साधुः भवान् आसनमलङ्करोतु सुस्थिरं भवन्तं प्रणमामीत्याद्युक्त्वा प्रणत इत्यर्थः, प्रतिवक्तरि प्रतिवादिनि, मत्सरोष्णाबद्धाक्षः मत्सरेण प्रतिवादिगुणासहिष्णुतालक्षणद्वेषेणोष्णामिव बद्धं भृकुटीसन्नद्धमक्षं नयनं यस्य स मत्सरोष्णाबद्धाक्षः, ईश्वररचिताकुम्भः ईश्वरेण सभापतिना रचितः आकुम्भो मस्तकादौ मुकुटाद्यलङ्कारादिर्यस्य स ईश्वररचिताकुम्भः, आसमन्तात् कुं पृथिवीं भासयति स्वतेजसेति आकुम्भशब्दव्युत्पत्तिः, भरतक्षेत्रोत्सवं भरतक्षेत्रे उत्सवं, कुरुते तनोति // 14 // तथायदि विजयते कथञ्चित् ततोऽपि परितोषभग्नमर्यादः।। स्वगुणविकत्थनदूषिकः त्रीनपि लोकान् खलीकुरुते // 15 // यदि विजयत इति / यदि कथञ्चित् केनापि प्रकारेण, विजयते प्रतिवादिनं विजयते, ततोऽपि कथच्चित्प्रतिवादिविजयादपि, परितोषभन्नमर्यादा परितोषेण प्रतिवादिविजयजनितात्यानन्देन भग्ना विनष्टा मर्यादा अभिजनप्रणामादिव्यवस्था यस्य स परितोषभन्नमर्यादः, स्वगुणविकत्थनदूषिकः स्वगुणस्य यद्विकथनं यं यं पश्यति तं सर्वं प्रति भूयः प्रलपनं तेन दूषिक: अन्यजनदूषणोद्भावनस्वभावः, त्रीनपि लोकान् भुवनत्रयमपि, खलीकुरुते अखलमदुष्टं खलं दुष्टं करोतीति खलीकुरुते त्रिभुवनमपि खलं कर्तुमध्यवसित इत्यर्थः // 15 // तथाउत जीयते कथञ्चित् परिषत्प्रतिवादिनं स कोपान्धः / गलगर्जनाक्रामन् वैलक्ष्यविनोदनं कुरुते // 16 // उत जीयत इति / “उत कथञ्चिज्जीयते स कोपान्धः गलगर्जेन परिषत्परिवादिनं आक्रामन् वैलक्ष्यविनोदनं कुरुते' इत्यन्वयः / उत अथवा, कथञ्चिज्जीयते प्रतिवादिना कथञ्चित् पराजितो भवति वादी, स वादी, कोपान्धः येन केनचिदुपायेन युक्तवादिनमपि मां पराजितवानिति जातकोपेनान्यो विवेकनयनविकलः, गलगर्जेन मुक्तकण्ठसिंहनादेन, परिषत्पतिवादिनं सभास्थजनप्रतिवादि.