________________ 220 दिवाकरकृता किरणावलीकलिता अष्टमी द्वात्रिंशिका / .. सा नः कथा भवित्री तत्रैता जातयो मया योज्याः / इति रागविगतनिद्रो वाङ्मुखयोग्यां निशि करोति // 12 // सा नः कथा भवत्रीति / नः अस्माकम् , सा कथा, भवित्री भविता, तत्र तस्यां कथायां, महृदयगताः, जातयोऽसदुत्तरलक्षणा जातयः, मया वादिना, योज्या प्रतिवाद्युक्तौं सङ्घटनीयाः, इति एवं, रागविगतनिद्रः रागपदं द्वेषस्याप्युपलक्षकं, तेन स्वमते यो रागः परमते यश्च द्वेषस्ताभ्यां विगता विनष्टा निद्रा सुषुप्तिर्यस्य स रागविगतनिद्रः सन्, वाङ्मुखयोग्यां वाचि मुखे च योग्यां योजयितुं शक्यां कथां, निशि रात्रौ, करोति कुरुते, यदि प्रतिवादी एवं वदिष्यति तदा तत्रेमां जाति योजयिष्यामोत्याद्यभ्यास रात्रावपि करोतीत्यर्थः // 12 // इत्थंभूतस्य वादिनो महत् कष्टं स्वव्यापारप्रभवाविर्भवतीत्याहअशुभवितर्कधृमितहृदयः कृत्स्ना क्षपामपि न शेते / कुण्ठितदर्पः परिषदि वृथात्मसंभावनोपहतः // 13 // अशुभेति / अशुभवितर्कधूमितहृदय अशुभविषयको यो वितर्कः कुतर्कः मम प्रतिवादो सभाज्वरादिपीडितो भवतु न तस्य सभायां वाक् प्रसरवित्यादिः तेन धूमितः ह्रदयोऽन्तःकरणं यस्य स अशुभवितर्कधूमित हृदयः, कृत्स्नां सम्पूर्णा, क्षपामपि निशामपि, अपिना तु न स्वपित्येवेति सूचितम्, न शेते न स्वपिति, परिषदि साभायां, स कुण्ठितदर्पः कुण्ठितः गर्जनादिक्रियाकरणसमर्थः दर्पोऽभिमानो यत्य स कुण्ठितदर्पः, वृथात्मसंभावनोपहतः वृथा प्रयोजनरहिता याऽऽ:मनः स्वस्वसंभावना अहं सर्वतन्त्रस्वतन्त्रः मत्सम्मुखं कोऽपि स्थातुं न शक्यत इत्यादिका तयोपहतः पीडितः स्वविषयासम्पत्तौ सम्भावना केवलं पीडयत्येवेत्यर्थः // 13 // तथापाश्निकचाटुप्रणतः प्रतिवतरि मत्सरोष्णाबद्धाक्षः / ईश्वररचिताकुम्भो भरतक्षेत्रोत्सव कुरुते // 14 // प्रानिकेति / प्रानिकचाटुप्रणतः प्राश्निकं विप्रतिपत्तिस्थानोपदेष्टार