________________ दिवाकरकृता किरणावलीकलिता अष्टमी द्वात्रिंशिका / 219 कलहकोटीनां कोटयः कलहकोटिकोटयः कलहकारिणः कोटिसङ्ख्यकाऽपि, समेता एकत्र मिलताः, वाक्यलालभुजः वाक्यमेव लाला वाक्यलाला, वाक्यलालां भुजत इति वाक्यलालभुजः, न तु स्वपक्ष न पुनः साधयन्तीत्यर्थः // 9 // आर्तध्यायिनो वादिनश्चिन्तनं दुश्चिन्तनमेवेत्यभिसन्धानेनाह-- आर्तध्यानोपगतो वादी प्रतिवादिनस्तथा स्वस्य / चिन्तयति पक्षनयहेतुशास्त्रवारवाणसामर्थ्यम् // 10 // आर्तध्यानोपगत इति / आर्तध्यानोपगतः आर्तध्यानशाली, वादी प्रथमोपस्थाता, प्रतिवादिनः प्रतिस्थापनाकर्तुः, पक्षनयहेतुशास्त्रवाग्बाणसामर्थ्यम् प्रतिवाद्युपगतानां पक्षनयहेतुशास्त्रवाग्बाणानां सामर्थ्य, चिन्तयति तथा यथा प्रतिवादिशास्त्रवाग्बाण सामथ्य चिन्तयतीत्यर्थः // 10 // तच्चिन्तनस्वरूपमेवोपदर्शयत-- . हेतुविदसौ न शाब्दः शाब्दोऽसौ न तु विदग्धहेतुकथः / उभयज्ञो भावपटुः पटुरन्योऽसौ स्वमतिहीनः // 11 // हेतुविदसाविति / असौ प्रतिवादी, हेतुवित् हेतुस्वरूपज्ञाता, न शाब्दः शब्दस्वरूपज्ञो न भवतीति, असौ प्रतिवादो, शाब्दः शब्दस्वरूपज्ञः, न तु न पुनः, विदग्धहेतुकथः व्यधिकरणबहुव्रीहेरसाधुत्वाद् विदग्धानां हेतुकथा यस्य स विदग्धहे तुकथ इति बहुव्रीहिन सम्भवति किन्तु विदग्धपद विदग्धसम्बन्धिपदमाश्रित्य विदग्धा हेतुकथा यस्य स विदग्धहेतुकथः, उभयज्ञो भावपटुरि यत्र उभयज्ञोऽभावपटुरित्यकारप्रश्लेषः, उगयज्ञो हेतुस्वरूपशब्दस्वरूपज्ञाताऽसौ, अभावपटुर्भावपटुर्यो न सोऽभावपटुः भावाभिज्ञो न भवतीत्यर्थः, असौ प्रतिवादी, अन्यः पूर्वोपददर्शितप्रतिवादिभिन्नः पटुः उभयज्ञो भावपटुश्च, किन्तु स्वमतिहीनः स्वस्य वादिनो या मतिज्ञानं तन्मतिसदृशः मति. रहित इत्यर्थः // 11 // ___इत्थं चिन्तयन् वादी सम्भावितप्रतिवादिकथादोषान्वेषणतत्परस्तदुपन्यासाभ्या' सार्थ रात्रावापि निद्राविमुख एवास्ते इत्युपदर्शयति--