________________ 218 दिवाकर कृता किरणावलोकलिता अष्टमी द्वात्रिशिका ! वाक्संरम्भस्य निष्प्रयोजनत्वे नानुपादेयत्वमित्युपदर्शयति- .. अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः / वाक्संरम्भः कचिदपि न जगाद मुनिः शिवोपायम् // 7 // अन्यत एवेति / अन्यत एव वाक्संरम्भव्यरिक्तकार णादेव, श्रेयांसि स्वर्गापवर्गादीनि कल्याणानि, भवन्त ति शेषः, अन्यत एव श्रेयोमार्गव्यतिरिक्तमार्गत एव, वादिवृषाः वादिप्रकाण्डाः, विचरन्ति गच्छन्ति, मुनिः जिनो भगवान् , शिवोपायं मक्षादिकल्याणसाधनं, क्वचिदपि कुत्रापि शास्त्रे, वाक्संगम्भो मोक्षोपायमिति, न जगाद नोक्तवानित्यर्थः // 7 // काचित् कथा तत्त्वमीमांसामांसला न दुष्टाऽपीत्याहयद्यकलहाभिजातं वाकच्छलरङ्गावतानिर्वाच्यम् / स्वच्छमनोभिस्तत्त्वं परिमीमांसेन दोषः स्यात् // 8 // यद्यकलहाभिजातमिति / यदि अकलहाभिजातं कलहमन्तरेणैव निष्पन्नं, वाक्छलरङ्गावतारनिर्वाच्यं वाक्छलेन रङ्ग शास्त्रार्थस्थाने योऽवतारः प्रवेशस्तेन निर्वाच्यं निर्वस्तुं शक्यम्, तत्वमभिधेयं वस्तु, स्वच्छमनोभिः स्वच्छं राग-द्वेषादिमलासंपृष्टं मनोऽन्तःकरणं येषां ते स्वच्छमनसस्तैः सह, परिमीमांसेत् परितो विचारयेत् वादी, तदा न दोषः स्यात् तदा दोषो न भवेदित्यर्थः // 8 // अन्येन समं विचारणामन्तरेणापि विद्वत्प्रकाण्डः स्वपक्षं व्यवस्थापयितुं शक्त कलहकारिणो बहवोऽपि मिलिता न स्वपक्षव्यवस्थापनसमर्था इत्याह साधयति पक्षमेकोऽपि हि विद्वान् शास्त्रवित् प्रशमयुक्तः / न तु कलहकोटिकोटयोऽपि समेता वाक्यलालभुजः // 9 // साधयतीति / "शास्त्रवित् प्रशमयुक्त एकोऽपि हि विद्वान् पक्षं साधयति कलहकोटिकोटयोऽपि समेता वाक्यलालभुजो न तु" इत्यन्वयः / शास्त्रवित् शास्त्ररहस्यज्ञाता, प्रशमयुक्तः प्रकृष्टशान्त्युपेतः, एकोऽपि सहायकद्वितीयरहितोऽपि प्रतिवादिविरहितोऽपि वा, विद्वान् पण्डितः, पक्षं स्वमतं, साधयति, कलहकोटिकोट्योऽपि कलहः कलिः कोटिः स्वीकारैकप्रकारो येषां ते कलहकोटयः