________________ दिवाकरकृता किरणावलीकलिता अष्टमी द्वात्रिंशिका। 217 क्रीडनकं क्रीडनमेव कोडनकम् , तच्च यथा नृपाणां प्रभुत्वं लघु करोति, तथा क्षुल्लकः वाद्यपसदः, शास्त्राण्यपि तत्त्वप्ररूपकवचनादभयशासनान्यपि, हास्यका हास्यरसप्रधानकवचनावली, नयति प्रापयति, वा अथवा, लघुतां लाघवम् / एतानि शास्त्राणि एतावन्मात्रतत्त्वप्ररूपकाणि न वाग्वैभवाकलितानीत्येवमवमाननां, नयति प्रापयतीत्यर्थः // 4 // कश्चिद् वादी स्वयं किञ्चिदपि शास्त्रं ज्ञातुमसमर्थोऽन्यैरेव किञ्चिज्ज्ञात्वा एतावन्मानं शास्त्रमिति निर्धारयन् पाण्डित्याभिमानप्रभवदर्पात् स्वाङ्गुल्यादीन्यजानि चर्वयतीत्युपदर्शयति अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय / कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण // 5 // अन्यैरिति / अन्यैः स्वातिरिक्तैः कैश्चिदपि, स्वेच्छारचितान् स्वकल्पनशिल्पिनिर्मितान्, अर्थविशेषान् कल्पकपुरुषभिन्नपुरुषाविज्ञातार्थान् , श्रमेण प्रयत्नविशेषेण, विज्ञाय ज्ञात्वा, कृत्स्नं सम्पूर्णम्, वाङ्मयं सारस्वतम्, इतः प्राप्तोऽहम् , इति दर्पण इत्याकार काभिमानेन, अङ्गानि अमुल्यादीनि, खादति चर्वयतीत्यर्थः // 5 // यादृग् वादी ताटगेव प्रतिवादी शास्त्रार्थ कतुं तत्समीपं यायादित्युपदर्शयतिदृष्ट्वा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदं नः / वादिनि चपले मुग्धे च ताडगेवान्तरं गच्छेत् // 6 // दृष्टुति : "नः गुरवः इदं दृष्ट्वा स्वयमपि परीक्षितं पुननिश्चतमिति वादिनि चपले मुग्धे चान्तरं तादृगेव गच्छेद्' इत्यन्वयः / नः अस्माकम् , गुरवः अध्यापकाः, इदं एतद्वस्तु, दृष्टा चक्षुषाऽवलोक्य, प्रत्यक्षं भ्रान्तमपि भवतीति, स्वयमपि अपिना अन्यारीक्षितमिति सूचितम्, परीक्षितं परमतनिराकरणपूर्वकस्वमतव्यवस्थापनलक्षणपरीक्षाविषयीकृत, पुनः निश्चितं निर्णीतं च मद्गुरव इदमयं दृष्टवन्तः परीक्षितवन्तो निर्णीतवन्तश्चेत्यतः, इदं एतत् पारमार्थिक तत्त्वम्, इति, एवं वादिनि वक्तरि, चपले एकविषयनिर्णयावस्थानरहिते प्रतिक्षणमन्यान्यविषयनिर्णीतिपरे, मुग्धे च अतिकुण्ठमतिशालिनि च, ताडगेव निरुक्तवादिसदृश एव, अन्तरं च वादी मध्यस्थयोर्मध्यदेशम्, गच्छेत् शास्त्रार्थ प्रविशेदित्यः // 6 //