SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 216 दिवाकरकृता किरणावलीकलिता अष्टमी द्वात्रिशिका / क च तत्त्वाभिनिवेश इति / तत्त्वाभिनिवेशः इदमेक तत्त्वं समीचीनं न विदमिति स्वाभिमततत्त्वविषयकाग्रहः, क्व च व पुनः संरम्भातुरेक्षणं कार्यकरणप्रयत्नः आरम्भ-समारम्भ-संरम्भभेदेन विधा भवति, तत्र यः संरम्भः क्रोधस्तेनातुरेक्षणं नयनं यत्र तत् संरम्भातुरेक्षणं, वदनं मुखम् , क्व च क्क पुनः, यदि स्वाभिमततत्त्वाभिनिवेशस्तदा स्वाभिमततत्त्वं यथा सिध्येत् तदेव कर्तव्यं न तु संरम्भातुरेक्षणं वदनं कत्तुमुचितम् , दीक्षाऽऽश्वसनीयरूपता दीक्षा गुरूपदेशः, आश्वासितु श्रद्धातुं योग्या आश्वासनीया विश्वासपात्रता, क्व च व पुनः, अनृजुः वक्र: न सरलः, वादः वचनम् , क च क पुनः, नहि संरम्भातुरेक्षणे वदने सरलो वादो युक्त इत्यर्थः // 2 // सभावतारस्य स्वभाव ईदृशो यदुत सरलमपि निष्ठुरं करोतीति दर्शयतितावद् बकमुग्धमुखस्तिष्ठति यावन्न रङ्गमवतरति / रङ्गावतारमत्तः काकोद्धतनिष्ठुरो भवति // 3 // तावदिति / "यावद् रङ्गं न अवतरति तोवद् बकमुग्धमुखस्तिष्ठति रङ्गावतारमत्तः काकोद्धतो निष्ठुरो भवति" इत्यन्वयः / यावत् यावत्कालं, रङ्गं वादात्मकरणभूमिम् , न नैव, अवतरति प्रविशति वादी, तावत् तावत्कालं, बकमुग्धमुखः बको यथा निश्चेष्टमुखः तथा निश्चेष्टमुखः, तिष्ठति अवतिष्ठते, रङ्गावतारमत्तः रङ्गे शास्त्रार्थसङ्ग्रामे अवतारः प्रवेशस्तेन मत्तः, काको द्धतनिष्ठुरः काको यथा वयं काका वयं काका इत्येवमुद्धत औद्धत्यशाली निष्ठुरः कर्णारुन्तुदवचनः, भवति तथा वाद्यपि अहं सर्वदर्शनस्वतन्त्रोऽस्मत्सम्मुखे कः स्थातुमीवर इत्येवमौद्धत्ययुक्तवचनमुखो भवतीत्यर्थः // 3 // सम्यगनवबुद्धयमानशास्त्रतत्त्वो वादे यत् किञ्चित् प्रलपन् वादी शास्त्रापभ्राजनां करोतीत्युपदर्शयति क्रीडनकमीश्वराणां कुक्कुट-लावकसमानबालेभ्यः / शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति // 4 // क्रीडनकमिति / कुक्कुट-लावकसमानबालेभ्यः कुक्कुट-लावको पक्षिविशेषौ तयोः समाना नृत्यकरणादिना सदृशा ये बालास्तेभ्यः, ईश्वराणां राज्ञा'
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy