SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ वादाभिधाना अष्टमी द्वात्रिंशिका / यस्यां निश्चिततर्कणा न सुलभा नाभीष्टतत्त्वप्रथा विद्यावादविवादमात्रचतुरा सा किं कथा धीमताम् / योग्यायोग्यविवेकशून्यहृदयैरास्तीर्यते किन्तु सा तां जानात्विति सिद्धसेनरचना भाव्यैव विद्याधनैः // 1 // वादे सौख्यकणिकाऽपि नास्तीत्युपदर्शयतिग्रामान्तरोपगतयोरेकामिषसङ्गजातमत्सरयोः। स्यात् सौख्यमपि शुनोः भ्रात्रोरपि वदिनोर्न स्यात् // 1 // ग्रामान्तरोपगतयोरिति / “नामान्तरोपगतयोरेकामिषसंगजातमत्सरयोः शुनोरपि सौख्यं स्यात् भ्रात्रोरपि वादिनोर्न स्याद्” इत्यन्वयः / ग्रामान्तरोपगतयोः स्वनिवासग्रामादन्यो ग्रामो प्रामान्तरं तस्मिन्नुपगतयोः, एकामिषसंगजातमत्सरयोः एकमामिषं मांसपिण्डं तस्य सङ्गः भोजनार्थ सम्बन्धः एकामिषसंगः तेन जातः ‘मत्सरः ययोस्तौ एकामिषसङ्गजातमत्सरौ तयोः एकामिषसंगजातमत्सरयोः, शुनोरपि कुक्कुरयोः, सौख्यं सुखित्वं, स्यात् भवेत्, तदामिषपिण्डस्य तदुभयभिन्नेन गृध्रादिनाऽपनयने स्वस्वमुखग्रहणतः तस्प द्वैधीभावं ताः पृथक् पृयग् भक्षणे, एकेन वा बलादाहृत्य भक्षणे कृते सति तदनन्तरं द्वेषविषयापगमात् सर्पविनाशे सम्भाव्येतापि सौख्यम, भात्रोरपि एकमातृपितृजातयोरपि, वादिनोरन्योऽन्यविरुद्धमताभ्युपगन्त्रोमल्ल-प्रतिमल्लभावेन कथायामुपस्थितयोः, न स्यात् सौख्यं न जात्वपि भवेदित्यर्थः // 1 // पूर्वावस्थातो वादावस्थायां सर्वमन्यादिवावलोक्यत इत्युपदर्शयतिक्व च तत्त्वाभिनिवेशः क्व च संरम्भातुरेक्षणं वदनम् / क्व च दीक्षाऽऽश्वसनीयरूपता क चाऽनृजुर्वादः // 2 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy