________________ 211 दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / विहितसमयोऽप्येवं वाग्मी विनोपनिषक्रियां न तपति यथा विज्ञातारस्तथा कृतविग्रहाः॥३२॥ परिचितनय इति ! "परिचितनयः स्फीतार्थोऽपि नृपतिः कृशोपनिषद्बलः परिसंगतां कृत्स्नां श्रियं भोक्तुं नालम् एवं विदितसमयोऽपि वाग्मी उपनिषत्क्रियां विना न तपति यथा विज्ञातारस्तथा कृतविग्रहाः” इत्यन्वयः / परिचितनयः परिचितः सर्वथा ज्ञातः नयः साम-दाम-भेदपराक्रमभेदेन चतुविधो नयो येन स परिचितनयः, स्फोतार्थोऽपि स्फीताः स्वच्छा अर्था वैडू. र्यादिमणि-काञ्चन-रजतादीनि धनानि यस्य स स्फोतार्थः एवंभूतोऽपि, नृपतिः नरपतिः, कृशोपनिषद्वलः कृशं क्षीणं उपनिषदां स्वसमीपवर्तिनां सामन्तादीनां बलं सेनादिकं यस्य स कृशोपनिषद्बलः सन्, परिसंगतां परितः सङ्गतिमुपगतां, कृत्स्नां समग्रां, श्रियं लक्ष्मी, भोक्तुं उपभोक्तु, नालं न समर्थः, एवं अमुना दिशा, विदितसमयोऽपि ज्ञातराद्धान्तोऽपि, वाग्मी वचनपटुः, उपनिषक्रियां सभास्थजनमनःप्रवेशादिलक्षणक्रियां, विना अन्तरेण, न तपति स्वसम्मुखविद्वज्जनं प्र ते तापं करोति न, प्रतिमल्लं जयतीति यावत्, यथा यादृशा विज्ञातारः शास्त्रतत्त्वज्ञातारः तथा तादृशाः, कृतविग्रहाः कृतो विग्रहः शास्त्रार्थलक्षणं युद्धं यैस्ते कृतविग्रहाः बोद्धृणा च समान एव मार्ग इत्यर्थः // 32 // वादावश्यकसाध्यसङ्घटनया वादी विपक्षं स्वतो नूनं स्वस्य वशे करोति विजयी ख्यातः सभायां भवेत् / इत्यावेदनतत्पराऽतिमधुरा द्वात्रिंशिकेयं स्तुति ाख्याता कथकानुसारिधिषणैलावण्यसूरीश्वरैः // 1 // // इति सप्तमवादोपनिषद्द्वात्रिंशिकास्तुतिव्याख्या //