________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / 213 यः कश्चित् कथकोऽबहुश्रुतार्थस्तस्य सभायां विचेष्टितमुपदर्शयतितिर्यग विलोकयति साध्वसविप्लुताक्षं श्लिष्टाक्षरं वदति वाक्यमसंभृतार्थम् / दृष्ट्वाऽऽहतः स्खलति विश्रुतकक्षसे (मे)कं / कण्ठं मुहुः कषति चापि कथाभ्यरिष्टः // 31 // तियग्विलोकयतोति / साध्वसविप्लुताक्षं साध्वसेन भयेन विप्लुतं व्याप्तमक्षं नयनं तत् साध्वसविप्लुताक्षं यथा तथा, तिर्यग् तिरश्चीने, विलोकयति मत्तो विशिष्टो मत्पावस्थितो मत्पृष्ठस्थितः कश्चिद् विपश्चित् विद्यते नवेति भयभीतान्तःकरण: सन् तिर्यग्विलोकयतीत्यर्थः, असंभृतार्थं न संभृतो न परिपुर्णः अर्थो वाच्यो यस्य तदसंभृतार्थं एवम्भूतं वाक्यं पदसमूहलक्षणं, श्लिष्टाक्षरं एकमक्षरमन्येनाक्षरेण पिलटं सम्बद्धं यत्र तत् शिलष्टाक्षरं यथा स्यात् तथा, वदति व्रते, अन्यविद्वद्भयात् सुस्पष्टं विविक्ताक्षरं परिपूर्णार्थकं वाक्यं वक्तुमसमर्थ इत्थं ब्रूते इत्यर्थः / 'विश्रुतकक्षसेकं' इत्यस्य स्थाने 'विश्रुतकक्षमेकं' इति पाठो युक्तः, विश्रुतकक्षं विशेषेण श्रुतेपु कक्षा प्रश्नप्रतिविधानपरम्परा यस्य स विश्रुतकक्षः तं विश्रुत कक्षम्, एकमद्वितीयः यः खलु एकस्मिन्नपि विचारणीये वस्तुनि आगमस्य प्रश्नप्रतिविधानाविच्छिन्नप्रवाहमाश्रयितुं समर्थस्तमद्वितीयं, दृष्टा अवलोक्य, आहतः अहो कथमहमनेन सार्द्ध विचारं कर्तुं शक्नुयामिति मानसिकविचारप्रत्याघातपीडितः, स्खलति यत्किञ्चिदपि वक्तुं स्खलनां प्राप्नोति, कण्ठं मुहुः वारं वारं, कषति कासश्वासादिव्याधिपीडितो यथा कण्ठं कषति तथा, अपि च कथाभ्यरिष्टः कथैवाभितोऽरिष्टः ग्रहवैगुण्यं यस्य स कथाभ्यरिष्टः अहो कमपि ग्रहवैगुण्यमुपस्थितं मम ये नानेन विदुषा सह कर्तव्यपद्धति समागता कथेत्यर्थः // 31 // उपनिषदलस्यावश्यकत्वं दर्शयन् वादोपनिषद्द्वात्रिंशिकायाः समाप्ति हरिणीवृत्तेन करोतिपरिचितनयः स्फीतार्थोऽपि श्रियं परिसंगतां न नृपतिरलं भोक्तुं कृत्स्नां कृशोपनिषद्बलः।