________________ 212 दिवाकरकृता किरणापलीकलिता सप्तमी द्वात्रिंशिका / कथकेन यादृशेन तत्र भाव्यं तदुपदर्शयति-- किञ्चित् सुनीतमपि दुर्नयवद्विनेय दुर्नीतमप्यतिशयोक्तमिव प्रशस्यम् / सर्वत्र हि प्रतिनिविष्टमुखोत्तरस्य सूक्तं च दुर्विगणितं च समं समेन // 30 // किञ्चित् सुनीतमपीति / सुनीतमपि सुष्टुयुक्त्युपनीतमपि, किञ्चित् किमपि, दुर्नयवद्विनेयं दुर्नीत्युपदर्शित यथा शिक्षणीयं तथा न शिक्षणीयं यद्यपि त्वयोक्तमिदं सुनीतित एव तथापि यथोपपादनीय प्रमापणीयं वा तथा नोपादितं नवा प्रमाणपथमुपनीतमिति तथाऽत्रावहितो भव गुरुमुखाद् वोपत्य तद्विषयावलीढचित्तो भव, यथाऽत्र दोषकणिकाऽपि नाविर्भवतीत्येवं विनयं ततोऽस्यौद्धत्यं निवर्त्तते, दुर्नीतमपि दुर्नयोपनीतमपि, न तिरस्करणीयं किन्तु, अतिशयोक्तमिव अतिशयोक्त्यलङ्कारोपेतमिव, अतिशयोक्त्यलङ्कारो रूपकातिशयोक्त्यादिभेदेन बहुविधः स साहित्यग्रन्थादवसेयः, प्रशस्य प्रशंसनीयमनेनाभिप्रायेणोक्तमिदं युक्तमेवेति, एवं सति स तथा नीतिपरायणो भवति यथा दुर्नीतिता तस्य निवर्त्तते, अहो दुर्नीतमपि मदुक्तं ममापमानादिपरिहाराय कृपालुनाऽनेन सम्यक्तयैव यथाकथञ्चिदनुमोदित मति न पुनरेवं मया वक्तव्यमिति सम्यग नीतिमार्गानुगमनात्, हि यतः, सर्वत्र सर्वस्मिन् विषये, प्रतिनिविष्टमुखोत्तरस्य प्रतिनिविष्टम् अत्यन्तनिलितं मुखोत्तरं सर्वतन्त्राभ्यस्तविषयत्वात् पुस्तकन्यस्तवाक्यावलोकनापेक्षामन्तरेणेव मुखस्थितमुत्तरं यस्य स प्रतिनिविष्टमुखोत्तरस्तस्य, सूक्तं च समीचीनं गद्यपद्यादिकं च, च पुनः, दुर्विगणित दुर्विगणनामितं असभोनगद्यपद्यादिमध्यगणनीयम् , समेन स्वसदृशेन, समं तुल्यं एकं सूक्तं कस्यचिदुक्तमन्येन तत्सदृशसूक्तेन तुल्यं तस्य, तथा कस्यचिदुक्तं दुर्गणितं तथाविधेन तेन तुल्यं तस्य, मुखस्थसर्वगामयसारस्वतस्य तस्य न किञ्चिदपूर्वमिति यत्किमपि कश्चिद् वक्ति तत्तुल्यवचनोपदर्शनेन तस्य तद्विषयकाभिमानमहमेवेदं वक्तुं समर्थोऽहमेवेदं जानामोत्याकारकमपाकरोतीत्यभिसन्धिः // 30 //