________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका। 211 भव्यग्रमनाश्च सन् परप्रवादान् परकीयागमान्, पश्यति अवलोकयति, स वादी, पार्थिवसभाः नृपालङ्कृतसभाः, आक्रम्य आक्रमणं कृत्वा, विरोचमानः देदीप्यमानः, द्विषतः शत्रून् , शोकप्रजागरकृशान् अहो एवं विद्वानपि उद्धतः संवृत्तो येन स्वसमयमाक्षिपति निष्ठुराक्षोऽव्यग्रमनाश्च परप्रवादानवलोकयति नृपसभा आक्रम्य विरोचमानो न नृगद् बिभ्यति, स्वसमुदायगते. तदोष दूषितानामस्माकं महद्भयमुपस्थितमित्यादि विचारप्रभावशोक जन्यप्रजागरप्रयुक्तकृशताशालिनः, करोति कुरुते इत्यर्थः // 28 // शत्रुभावं गतेषु वागाडम्बरमात्रं तात्कालिकविरोधाभिव्यक्त्यर्थमेव न ततो रिपूनां किञ्चिद्वीयतेऽतः वागाडम्बरं परित्यज्य यथा तेषां दोघकालिकमपकीर्त्यादिकं भवेत् तथा विधेयमित्याशयेनाह किं गर्जितेन रिपुषु त्वभितो मुखेषु किन्त्वेव निर्दयविरूपितपौरुषेषु / वाग्दीपितं तृणकृशानुबलं हि तेजः __ कल्पात्ययस्थिरविभूतिपराक्रमोत्थम् // 29 // किं गर्जितेनेति / “अभितो मुखेषु रिपुषु तु गजितेन किं, निर्दयविरूपितपौरु. घेष्वेव हि वाग्दीपितं तृणकृशानुबलं तेजः कल्पात्ययस्थिरविभूतिपराक्रमोत्थं किन्तु" इत्यन्वयः / अभितो मुखेषु सर्वप्रकारेण दुःखोपायोद्यतेषु, रिपुषु तु पुनः, गजितेन सिंहनादेन, किं न किञ्चित् न तेन ते भोषयितुं शक्याः येन दुःखोपायविमुखास्ते भवेयुः, निर्दयविरूपितपौरुषेष्वेव निर्दयं दयारहितं विरूपितं दर्शितं चौरुषं पराक्रमो यैस्ते निर्दयविरूपितपौरुषास्तेष्वेव, रिपुष्विति प्रकृतम् , हि यतः, वाग्दोपितं वाचोद्दीपितं देदीप्यमानं, तृणकृशानुबलं तृणप्रभवाग्निसमबलं, यथा तृगप्रभवाग्निर्देदीप्यमानोऽपि झटि येव विनश्यति तथा वाग्दीपितं तेजोऽपोति, तेजः प्रभावः, कल्पात्ययस्थिरविभूतिपराक्रमोत्थं किन्तु कल्पस्य * क्रमिकाष्टाविंशदिन्द्रायुःकालसमान-कलब्र मदिवसः परम तकल्पितस्य योऽत्ययो विनाशः तावत् पर्यन्तं स्थिराविभूतिर्यस्य स कमात्ययस्थिरविभूतिः पुरुषः, तस्य यः पराक्रमः प्रौढप्रतापस्तदुत्थं तजन्यं, किन्तु न तमन्यमित्यर्थः // 29 //