________________ दिवाकर कृता किरणावलीकलिता सप्तमी द्वात्रिशिका / तस्मात् प्रवेष्टुमुदितेन सभामनांसि ___ यत्नः श्रुताच्छतगुणः शम एव कार्यः // 27 // मन्दोऽपोति / "प्रशमानुयातः मन्दोऽपि पुंसामहार्यवचनः, स्फीतागमोऽप्यनिभृत पुंसां स्मितवस्तु, तस्मात् सभामनांसि प्रवेष्टुमुदितेन शम एव श्रुताच्छतगुणो यत्नः कार्यः' इत्यन्वयः। प्रशमानुयातः प्रशमानुगमनशीलः, मन्दोऽपि विशिष्टागमज्ञानशून्यत्वान्मन्दमतिरपि पुरुषः, पुंसां पुरुषाणाम् , अहार्यवचनः अपरित्यक्तवचनो भवति तद्वचनमुपासते पुरुषाः इत्यर्थः, स्फीतागमोऽपि स्फीतोऽर्थतः शब्दतश्च विस्पष्ट आगमो जैनराद्धान्तो यस्य स स्फीतागमः समीचीनागमतदर्थज्ञानशाली पुरुषः, अनिभृतः निभृतः शान्तो नेत्यनिभृतोऽशान्तः शमगुणरहितः पुरुषः, पुंसां स्मितवस्तु स्मितलक्षणवस्तु तद्वदनुपादेयो भवतीति, तस्माद एतस्मात् कारणात् , सभामनांसि सभास्थितजनान्त:करणानि, प्रवेष्टुं प्रवेश कतम् , उदितेन अभ्युद्यतेन पुरुषेण, शम एव शान्त एव, श्रुताच्छतगुणः भ्रताध्ययनाध्यापनादौ यः प्रयत्नस्ततः शतगुणः, प्रयत्नः प्रयासः, कार्यः कर्तव्य इत्यर्थः // 27 // स्वसमयं परसमयं च तिरस्कृत्य सभास्थजनमप्याक्रम्य विराजते तस्य दिवारात्रौ जागत्येव रिपवस्तच्छोकाभिभूता इत्याह आक्षिप्य यः स्वसमयं परिनिष्ठुराक्षः . पश्यत्यनाहतमनाश्च परप्रवादान् / आक्रम्य पार्थिवसभा स विरोचमानः शोकप्रजागरकृशान् द्विषतः करोति // 28 // आक्षिप्येति / “यः स्वसमयमाक्षिप्य परिनिष्ठुराक्षोऽनाहतमनाश्च परप्रवादान् पश्यति स पार्थिवसभा आक्रम्य विरोचमानः द्विषतः शोकप्रजागरकृशान् करोति" इत्यन्वयः / यः कश्चिद् वादी, स्वसमयं स्वसिद्धान्तम्, आक्षिप्य तिरस्कृत्य, परिनिष्ठुराक्षः परितः सर्वतः निष्ठुर स्नेहहीनमक्षं चक्षुर्यस्य स परिनिष्ठुराक्षः, अना. हतमनाश्च न आहतं केनचित् पीडितमनाहतं मनोऽन्तःकरणं यस्य स अनाहतमनाः