________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / 209 अवाप्तं प्राप्तं, तर्हि अत्र एतद्विषये, अरतिश्रुतिभिः अप्रीत्युत्पादकशब्दसमूहै:, किम् न किञ्चिदित्यर्थः // 25 // अरत्युत्पादकं वचनं मर्मच्छेदीत्यसह्यमित्यत आहकिं मर्म नाम रिपुषु स्थिरसाहसस्य मर्मस्वपि प्रहरति स्ववधाय मन्दः / आशीविषो हि दशनैः सहजोग्रवीर्यैः क्रीडन्नपि स्पृशति यत्र तदेव मर्म // 26 // कि मर्म नामेति / “रिपुषु स्थिरसाहसस्य किं नाम मर्म, मन्दः स्ववधाय मर्मस्वपि प्रहरति, आशीविषो हि क्रीडन्नपि सहजोग्रवीयर्दशनैः यत्र स्पृशति तदेव मर्म' इत्यन्वयः। रिपुषु शत्रुषु, स्थिरसाहसस्य स्थिरं निश्चलं साहसं स्वबलाधिकबलघातिप्रयत्नो यस्य स स्थिरसाहसः तस्य, नामेति कोमलामन्त्रणे, किं मर्म यत्रैवाङ्गे शस्त्रप्रहारो विदधाति तस्यैवाङ्गस्यात्यन्तोच्छेदतो मरणप्रायं दुःखं भवतीति तदपि मर्मसमानमिति किमिति प्रतिनियतं मर्म न किञ्चिदित्यर्थः. ऋद्धो हि मर्मामर्मविवेकमकृत्वैव शस्त्रप्रहारं करोति कथमन्यथात्मन्येव क्रुद्धो मर्मस्वपि प्रहारं करोतीत्याह-मन्दः मन्दमतिर्मुमूर्षुः पुरुषः, स्वयधाय स्ववधार्थ, मर्मस्वपि स्वशरीरमर्मस्वप्युत्तमाङ्गादिषु, प्रहरति प्रहारं करोति, इदमेवाझं मर्मेति नियमो नास्तीत्याह-हि यतः, आशीविषः सर्पः, क्रीडन्नपि क्रीडां कुर्वन्नपि, अनेन क्रोधराहित्य तस्य व्यञ्जितम् , सहजोग्रवीर्यैः सहजं स्वाभाविकमुग्रवीर्य परमृत्युजनकविषलक्षणवीर्य येषु तानि सहजोग्रवीर्याणि तैः, दशनैः, दन्तैः, यत्र यस्मिन्नने, स्पृशति, तदेब अझं, मर्म, यतस्तदुघातादपि प्राणी म्रियत इत्यर्थः // 26 // शमगुणो हि पुमान् सभाजनमनस्सु प्रवेष्टुमर्हति नान्य इति शमे यत्नो विधेय इत्युपदिशति- . * मन्दोऽप्यहार्यवचनः प्रशमानुयातः स्फीतागमोऽप्यनिभृतः स्मितवस्तु पुंसाम् / - 14