________________ 208 दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / इषद्धासगर्भितं, उपालमेत उपालम्भं कुर्यात्, अहो कुयुक्तिपरिकलितमिदं शास्त्र केनापि प्रतारकेन धूर्तेन निर्मितं, नैतस्मात् तत्त्वज्ञानं भवितुमर्हति रथ्यापुरुषायुपरिचितवाक्यकदम्बकवत्, इत्येवंशास्त्राण्येवोपालमेत, ततश्च शास्त्रोत्थानप्रयुक्तपरिभवोपजनिताऽकीतिरपाकृता स्यात्, स कश्चित् तत्त्वानभिज्ञो वावदूकः पण्डितम्मन्यः, अस्मद्गुरुं लोकप्रसिद्धपाण्डित्यकान्तं विद्वद्गणमान्यमस्मदुपाध्यायं, हसति अहो तत्त्वानभिज्ञोऽपि मन्दमतिकतिपयशिध्यपरिवृतम् आत्मानं पण्डितं मन्यते इत्येवमुपहासं करोति, इति एतस्मात् कारणात्, विदह्यमान गुरूपहासदं दह्यमानान्तःकरणं प्रति, व्युत्पादयन्ति हि प्रतिपादयन्ति हि, यशांसि अत एव एतस्मादेव कारणात्, भूयः अनेकवारम्, मा त्वं स्वरूपहासतो अदह्यमानहृदयो भव भुवनतलव्यापीनि त्वद्गुरुयशांसि नैतत्कृतोपहासमात्रेणापगतानि भवेयुरिति // 24 // शास्त्रेषु तात्पर्यापरिज्ञानतो ये दोषाः वरैरुपस्थापिता न ते वक्तारमभ्युपगच्छन्ती न ततो वक्तुः किमपि क्षीयते तदोषानपाकरणतो भवतु नाम लाघवं शास्त्रस्य तदनुयायिनश्च न तेन चित्तवैक्लव्यं करणीयमित्युपदिशति अङ्गाभिधानमफलं प्रकृतोपशान्तौ वक्तारमन्ववसिता न हि शास्त्रदोषाः / सत्यं तु लाघवमनेन यथाऽभ्युपैति तच्चेदवाप्तमरतिश्रुतिभिः किमत्र // 25 // अङ्गाभिधानमिति / "प्रकृतोपशान्तौ अङ्गाभिधानमफलं शास्त्रदोषाः हि न वक्तारं नान्ववसिताः यथाऽभ्युपैति अनेन लाघवं तु सत्यम्, तश्चेदमवाप्तं, अत्र भरतिश्रुतिभिः किम्" इत्यन्वयः / प्रकृतोप्रशान्तौ प्रकृतस्य प्रस्तुतस्य विवादस्य उपशान्तौ निवृत्तौ सत्यां, अङ्गाभिधानं वादाङ्गस्याभिधानं कथनम्, अफलं निष्फलम् , शास्त्रदोषाः तात्पर्याद्यनवधारणेन परोपस्थापिताः शास्त्रे दोषाः, हि यतः, न नैव, वक्तारं शास्त्रप्रवक्तारं, अन्ववसिताः शास्त्रदोषापरिहरे वक्तारमाश्रित्य स्थिताः, यथा येन प्रकारेण, अभ्युपैति शास्त्रार्थ अनेन शास्त्रार्थाभ्युपगमने, लाघवं तु लघुत्वं पुनः, सत्यं निश्चितं, दोषानपाकरणेन दूषितशास्त्रार्थाभ्युपगमेन शास्त्रस्य तथाऽभ्युपगन्तुश्च लाघवं भवत्येव, तद् लाघवम् चेद् यदि,