________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिशिका / परप्रतिविधानं सम्यगालोच्य कथायां प्रवर्तितव्यमित्युपदशयति--- एकान्वयोत्तरगतिः परिदृष्टपन्थाः प्रत्याहतश्च चतुरस्रमपाहतश्च / तस्मात् परोत्तरगतौ प्रणिधानवान् स्या न्नानामुखप्रहरणश्च यतिद्विषत्सु // 23 // एकान्वयोत्तरगतिरिति / यथाश्रुतानुसार्यत्रान्वयः। एकान्वयोत्तरगतिः एकान्वया एकस्मिन् सौगतादिमतानुयायिनि पुरुषेऽन्वयः सम्बन्धो यस्यां सा एकान्वया, उत्तरगतिः समाधानप्रक्रियाप्रतितन्त्रसिद्धिः, परिदृष्टपन्थाः परितः सर्वतो दृष्टो ज्ञातः पन्थाः मार्गः सर्वतन्त्रसिद्धः, प्रत्याहतश्च अनेकैर्वादिभिः छिन्नभिन्नतामुपगतश्च, चतुरनं सर्वप्रकारेण, अपाहतश्च अखण्डितश्च, मार्ग इति सम्बध्यते, तस्मादुत्तरगतेरनेकप्रकारत्वात् , परोत्तरगतौ परप्रदर्शितसमाधानप्रकारे, प्रणिधानवान् चित्तैकायमेकाग्रचित्तता वा प्रणिधानं तद्वान्, स्यात भवेत्, अमुं मतमालम्ब्यैतन्मतानुयायिनाऽनेनेदमुत्तरमेतदभिप्रायकमुक्तमिति भावनाभावितान्तःकरणो भवेत्, यतो यतिद्विषत्सु यतेः साधोषित्सु शत्रुषु, नानामुखप्रहरणश्च नानाप्रकारकखण्डनोपायात्मकास्त्रं भवतीत्यर्थः / / 23 // नानामुखप्रहरणमेव भङ्गयन्तरेण दर्शयति शास्त्रोत्थितान् परिभवः खलतामुपैति ___ तान्येव तु स्मितगभीरमुपालभेत / अस्मद्गुरुं स हसतीति विदह्यमानं व्युत्पादयन्ति हि यशांस्यत एव भूयः // 24 // शास्त्रोत्थितानिति / शास्त्रोत्थितान् शास्त्रच्युतान् शास्त्रं परितज्य स्वकपोलकल्पितयुक्तिवातमुखान् जनान् प्रति, परिभवः आहतशास्त्रवचनैः पुरुषैः कृतः परिभवः विद्वत्सभातो निष्कासनादिः, खलतां निष्कारणवैरभावम् , उपैति प्राप्नोति, खलो यथा साधूनां निष्कारणमेव शत्रुर्भवति तथा शास्त्रोत्थितान् प्रति पररचितोपद्रवः शत्रुर्भवति, तान्येव तु शास्त्राण्येव पुनः, स्मितगमीर