________________ 206 दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिशिका / भटानां परस्परं योद्धृणां सङ्कटेषु वादयुद्धलक्षणसङ्ग्रामेषु पराजयप्रभवदु:खजनकत्वात सङ्कटत्वं, नोराजितस्य पूजनान्तकालीनारात्रिककर्मीभूतस्य, तु पुनः, शुद्धप्रहारविभवाः शुद्धो युक्त्यादिरहितः प्रहार एव विभवो येषां ते शुद्धप्रहारविभवाः, रिपवः शत्रवः, स्वपन्ति तस्य किञ्चिदप्यपकर्तुमशक्या निश्चेष्टीभूयावतिष्ठन्ते इत्यर्थः // 21 // सभायां येन प्रकारेण वर्तितव्यं तदुपदिशति-- ग्रन्थाभिचारनिपुणे बहु न प्रयोज्यं ___ मत्वा विशेज्जनमनांसिं सतामतीव / आशङ्कितानपि दिशः पुरुषस्य यातुः कीर्त्यक्षमान् परिहरेदिति तत्प्रसक्तः // 22 // ग्रन्थाभिचारनिपुणे इति / "ग्रन्थाभिचारनिपुणे बहु न प्रयोज्यं मत्वा जनमनांसि विशेत् सतामतीव, तत्प्रसक्तः यातुः पुरुषस्य आशङ्कितानपि दिशः कोय॑क्षमानिति परिहरेत्" इत्यन्वयः / ग्रन्थाभिचारनिपुणे प्रन्थानामभितश्वारे तत्तद्विषययोजनलक्षणप्रचारे निपुणः पण्डितः प्रन्थाभिचारनिपुणस्तस्मिन् पुरुषे, बहु अधिकं, न प्रयोज्यं न प्रष्टव्यं अयं विषयः कस्मिन् ग्रन्थे, इयं प्रक्रिया कुत्रेत्येवं प्रकारकोऽधिकसंख्यकः प्रश्नो न कर्तव्यः, मत्वा ज्ञात्वा, जनमनांसि जनानामन्तःकरणानि, विशेत् प्रविशेत्, तत्र तथा विचारः करणीयो येन तद्विचारमुदितानां जनानामन्तःकरणेषु प्रविष्टो भवति, एवमपि कदाचिद्दुर्जनस्य हृदये न प्रविष्टो भवेत् तथापि, सतां सज्जनानां मनांसि, अतीव प्रविशेदिति, सज्जनमनोरञ्जकविचारो न तु बहवः प्रश्ना एव विधेया इत्यर्थः, तत्प्रसक्तः सज्जनमनःप्रवेशोपायप्रसक्तः, यातुः पुरुषस्य, आशकि. तानपि एतत्तथा गच्छतो मनःसमीहितार्थलाभो भविष्यति न वेत्यादि शङ्काविषयीकृतानपि, दिशो मार्गान्, मार्गवाची दिक्शब्दः पुंलिङ्ग, कीर्त्यक्षमान् कीर्तिजननासमर्थान् इति हेतोः, परिहरेत् परित्यजेत् शङ्कितमार्गपथिको म भवेदित्यर्थः // 22 //