SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका। 205 सिद्धयन्तरमिति / “महतो वादान् परिभूय सिद्धथन्तरं न स्यात्, भर्जितस्तु विजयोऽपि अपवाद एव, तस्मात् अभिलक्षितस्य परेभ्योऽनुत्रसतो वादगहनानि विगाहितुं न युक्तम्" इत्यन्वयः / महतः अनेकनयमयत्वेन विस्तृतान्, वादान् परिभूय खण्डयित्वा, सिद्धयन्तरं वाक्यखनिपरिबोधप्रभवभवसिद्धिभिन्नसिद्धिः, न स्यात् न भवेत् , अर्जितस्तु नयवाद परित्यज्य स्वकपोलकल्पितकुतर्कादिसङ्घटितविचारतो जनितस्तु, विजयोऽपि परवादिजयोऽपि, अपवाद एव, वस्तुतः स्वपराजय एव, तस्माद महद्वादपरिभवप्रयोज्यविजयस्यापवादत्वात्, अभिलक्षितस्य अभिता सर्वतो लक्षितस्य विशिष्य वादखनिप्रतिबोधरहितत्वेन प्रसिद्धस्य, परेभ्यः परवादिभ्यः, अनुत्रसतः विचारारम्भानन्तरं भीतस्य, वादगहनानि वादवनानि, विगाहितुं विशेषेण प्रवेष्टु, न युक्तं न समीचीनमित्यर्थः // 20 // __ केवलागमाभ्यासजनितबुद्धिमतः पुंसो दुर्विदग्धजनसभायां परिभव एव भवति, यः खल्वबहुश्रुतोऽपि वाक्पाटवादिबलात् सभायां पूजितो भवति तस्य रिपवो न किञ्चित् कर्तुं शक्ता इत्युपदिशति आम्नायमार्गसुकुमारकृताभियोगा रोत्तरैरभिहतस्य विलीयते धीः / नीराजितस्य तु सभाभटसङ्कटेषु शुद्धप्रहारविधुरा रिपवः स्वपन्ति // 21 // आम्नायमार्गेति / “क्रूरोत्तरेरभिहतस्य आम्नायमार्गसुकुमारकृताभियोगा धोविलीयते सभाभटसङ्कटेषु नीराजितस्य, तु शुद्धप्रहारविभवा रिपवः स्वपन्ति" इति भन्यवः / क्रूरोत्तरैः क्रूराणां पुरुषाणामुत्तरैः प्रश्नप्रतिविधानैः, अभिहतस्य नितरां पीडितस्य जनस्य, आम्नायमार्गसुकुमारकृताभियोगा आम्नायस्यागमस्य मार्गे तत्तन्नयगर्भितवस्तुप्रतिपादनप्रकारे सुकुमारोऽत्यन्तकोमलः, आम्नायमार्गसुकुमारः सुकुमारत्वं स्फुटयुक्त्युपेतत्वम्, कृतोऽभितो योगः सम्बन्धः कृताभियोगः आम्नायमार्गसुकुमारः कृताभियोगो यस्या सा आम्नायमार्गसुकुमारकृताभियोगा, धीः बुद्धिः, विलीयते विनश्यति, सभाभटसङ्कटेषु सभायां
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy