________________ 20. दिवाकरकृता किरणापलिकलिता सप्तमो द्वात्रिंशिका / . शिष्याणां कथायां पराजये तद्गुरवोऽपि पराजिता इति व्यपदिशन्ते अतस्तत्प्रतिबोधनं गुरूणां कर्तव्यमित्युपदिशति शिष्येषु वाक्यखनयः प्रतिबोधनीयाः __ सिद्धिस्तथाहि नियता नयवाददोषान् / अभ्युद्गतस्य हि कथाविषमाहिराहि तेजः सकृत् प्रतिहतं च न चाऽस्ति भूयः॥१९॥ शिष्येष्विति / शिष्येषु अन्तेवासिषु, वाक्यखनयः याः वाक्यलक्षणज्ञानखनयः, प्रतिबोधनीयाः भस्य वाक्यस्यैतन्मयानुसारेणायमर्थोऽस्य च वाक्यत्यास्मिन् सङप्रहादिनयाभिमतेऽर्थे तात्पर्यमित्येवं विज्ञापनीयाः, तथाहि तथासति हि, सिद्धिः पदार्थतत्त्वविनिर्णयः, नियता अवश्यम्भाविनी, हि यतः, नयवाददोषान् नयवादाश्रितदोषान् , अभ्युद्गतस्य अभितः संप्राप्तस्य जनस्य, कथाविषमाहिराहितेजः कथायां यद्विषमं स्थानं तद्रूपो योऽहिः सर्पः तद्राहि तदारूढं तेजः पुरुषस्य चैतन्यलक्षणं तेजः, सकृत् एकवारं, प्रतिहत च कथाविषमस्थानग्रन्थग्रन्थ्यनवगाहन लक्षणप्रतिघातकर्मीभूतं सत्, भूयः पुनः, न च नैव, अस्ति भवति, गुरोः मुखात्तत्तन्नयवाक्यखनिप्रतिबोधे नयवाद. दोषाननासादयन्तः शिव्याः कथाविषमस्थानपतिता अप्यप्रतिहततेजस्काः नयैजीवन्त इति तद्गुरूणां न च पराजयसम्भावना इत्यभिसन्धिः // 19 // ___ नयवाददोषानालिङ्गितस्य यथा वस्तुतत्त्वनिर्णयलक्षणा सिद्धिर्भवति न तथा महतो नयवादान् परिभूयावतिष्ठमानस्य, तथा सिद्धयोऽभवन्नपि विजयो लोकनिन्दितोऽविजय एवेत्युपदिशति सिद्धयन्तरं न महतः परिभूय वादान् स्यादर्जितस्तु विजयोऽपवाद एव / तस्मान्न वादगहनान्यभिलक्षितस्य . युक्तं विगाहितुमनुत्रसतः परेभ्यः // 20 //