________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिशिका / 203 यतः, तेन पूर्वोपदर्शितविशिष्टपुरुषेण, प्रतिहतोऽपि पराजितोऽपि, भाति शोभते, तं निरुक्तविशिष्टपुरुष, जित्वा पुनः पराजयं कृत्वा पुनः, अतिकीर्तिफलानि अन्युत्कृष्टकीर्तिजन्यलाभपूजाख्यात्यादिफलानि, भुङ्क्ते आसादयतीत्यर्थः // 17 // कथायां यत् स्वाशक्यं तत् परित्यज्याप्यन्यत् करणोयं न तु मूकीभवनं न्याय्यमित्याशयेनाह वीरोत्तरं परमशक्यमवेत्य कार्य क्षेपं प्रमोहविकथासु परः प्रयत्नः / अन्यो हि धीरितकथाविधुरस्य शब्दः संदिग्धतुल्यगुण-दोषपथस्य चान्यः // 18 // वीरोत्तरमिति। “वीरोत्तरं अशक्यमवेत्य परं क्षेपं कार्यम्, प्रमोहविकथासु परः प्रयत्नः कार्य इति लिङ्गविपरिणामेन अन्वयः, हि धीरितकथाविधुरस्य शब्दोऽन्यः, संदिग्धतुल्यगुणदोषपथस्य चान्यः शब्दः' इत्यन्वयः / वीरोत्तरं विद्यावीरस्य वादिनः प्रतिवादिनो वा, उत्तर प्रश्नप्रतिविधानम्, अशक्यं कर्तुमशक्यम्, अवेत्य ज्ञात्वा, परं केवलं, क्षेपं भवदुत्तरं कुत्र वर्त्तते किमत्र प्रमाणमित्यादिविक्षेपं, कार्य कर्त्तव्यम्, प्रमोहविकथासु प्रकृष्टमोहजनकस्त्रीपुरुषादिप्रीत्यादिविषयककथानकेषु, परः प्रकृष्टः, प्रयत्नः कार्यः इत्थं विचित्रव्यापाराश्रयणे हेतुमाह-हि यतः, धीरितकथाविधुरस्य स्वीकृतकथानिर्वहणासमर्थस्य पुरुषस्य, शब्दः प्रतिपादनप्रकारः, अन्यः स्वीकृत कथानिर्वहणसमर्थपुरुषकर्तृक. प्रतिपादनप्रकारविलक्षणः, संदिग्धतुल्यगुणदोषपथस्य च संदिग्धः संदेहविषयीभूतः तुल्यश्च स्वमानश्च संदिग्धतुल्यः गुणश्च दोषश्च गुण-दोषौ तयोः पन्था मार्गः संदिग्धतुल्यो गुण-दोषपन्था यस्य स संदिग्धतुल्यगुणदोषपथस्तस्य 'पुरुषस्य पुनः, अन्यः प्रतिपादनप्रकारो भवति, तथा च येन केनचित् प्रकारेण कथाविरछेदो न भवेत् तथा यतितव्यमित्यभिसन्धिः // 18 //