SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावलीकलिता सप्तमी द्वात्रिंशिका। कृत्येष्धिति / “कृत्येषु आदरविषक्तविलोचनो न स्यात् तत्सकथाप्रणिहितोपहतास्तु साध्याः युक्तोपनीतपरिहासमुखांश्च कुर्वन् सदसि पक्षद्विषा प्रधान पर षयेत्” इत्यन्वयः / कृत्येषु कर्तव्येषु, आदरविषक्तविलोचनः आदरेण विषक्तः समासक्तं विलोचनं यस्य स आदरविषक्तविलोचनः, न स्यात् न भवेत् , तत्संकथाप्रणिहितोपहतास्तु तत्संकथा कृत्यविषयिणी विचारणा झटितीदं कर्त्तव्यं नेदं कर्त्तव्यमित्यादिरूपा, तस्यां यत् प्रणिहितं प्रणिधानं मनस एकाग्रत्वं तेनोपहताः कर्तव्यान्तरविमुखाः पुनः, साध्याः स्वपक्षानुकूलाः, भवन्तीति शेषः, युक्तोपनीतपरिहासमुखांश्च युक्तं समीचीनं यद् उपनीतं प्रसङ्गतोऽन्यतः प्राप्तं तेन परिहासमुखांश्चान्योऽन्योपहासमुखान् तत्रत्यजनांश्च, कुर्वन् सन्, सदसि सभायां, पक्षद्विषा स्वपक्षद्वेषशालिना पुरुषेण, प्रधान सभापति, परुषयेत् तत्कर्त्तव्यसहिष्णुं कुर्यात्, ततश्च साध्योऽपि पक्षद्विद प्रधानतिरस्कृतः न पक्षोपघातसमर्थो भवेदित्यर्थः / / 16 // यादृशैन पुंसा सह कथायां पराजयेऽपि शोभैव जयतीत्युत्कृष्टयशोऽधिगतिस्तादृशेन पुरुषेण सह कथा कर्तव्येत्याशयेनाह उद्धतवाग्मियशसा जनसंप्रियेण पूर्व विसृष्टवचनप्रतिभागुणेन / वाच्यं सह प्रतिहतोऽपि हि तेन भाति जित्वा पुनस्तमतिकीर्तिफलानि भुङ्क्ते // 17 // उद्धृतवाग्मियशसेति / अत्रान्वयो यथाश्रुतानुसार्येव / उद्धतवाग्मियशसा उद्भूतं लोके विसत्वरं वाग्मिनो यशः वाग्मियशः उद्धृतं वाग्मियशो यस्य स उद्धृतवाग्मियशाः तेन उद्भूतवाग्मियशसा, जनसंप्रियेण जनानां सम्यकप्रियः प्रेमपात्रं जनसंप्रियस्तेन, पूर्वमिति उद्धृतवाग्मिवचसेत्यादौ सर्वत्रान्वेति, पूर्व प्रथमत एव, विसृष्टवचनप्रतिभागुणेन विसृष्टवचनस्य स्वोच्चारितवच. नस्य प्रतिभागुणोऽपूर्वापूर्वकल्पनालक्षणगुणो यस्य स विसृष्टवचनप्रतिभागुणस्तेन, सह साधे, वाच्यं वक्तव्यं, निरुक्तेन पुरुषेण साधं कथा कर्तव्येत्यर्थः, हि
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy