SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / 201 सभायां जनानामन्योऽन्यविरोधात् कथाऽपभाजना मा भूदित्यभिसन्धानेमाह भूयिष्ठमुन्नदति यस्य कृतान्तदोषान् __ यं वा जिगीषति तमुत्सहतेऽपि वा यः। ये चाप्यनेन मुषितप्रतिभाः कदाचित् तेष्वस्य वाक्यमवतार्य विनोदनीयम् // 15 // भूयिष्ठमुन्नदतीति / “यस्य कृतान्तदोषान् भूयिष्ठमुन्नदति, वा / जिगीषति, वा यः तमुत्सहतेऽपि, कदाचित् ये चापि अनेन मुषितप्रतिभाः, अस्य वाक्यं तेषु अवतार्य विनोदनीयम्" इति सम्बन्धः / यस्य वादिनः प्रतिवादिनो वा, कृतान्तदोषान् सिद्धान्तदोषान्, भूयिष्ठं बहुवार, उन्नदति उच्चस्वरेण कथयति, वा अथवा, यं वादिनं, प्रतिवादिनं वा, जिगीषति जेतुमिच्छति, वा अथवा, यः कश्चित् पुरुषः, तं जिगोषन्तं जनम्, उत्सहते उत्साहं करोति, भोः शीघ्रं स्वप्रतिपक्षं जयेत्युन्साहजनकं वचनं वदति य इत्यर्थः, कदाचित् कस्मिन्मपि समये, ये चापि ये केचित् पुरुषा अपि, अनेन प्रकृतपुरुषेण, मुषितप्रतिभाः मुषिता क्षयमुपगता प्रतिभा नवनवोन्मेषशालिनी बुद्धिर्येषां ते मुषितप्रतिभाः, अस्य प्रकृतपुरुषस्य, वाक्यं सिद्धान्तदोषादिप्रतिपादकवचनं, तेषु अनन्तरोपदर्शितेषु जनेषु, अवतार्य अनेनाभिप्रायेणेद मुक्तमित्येवमवतारयित्वा, विनोदनीयं आनन्दन'यं सभ्यजनसमुच्चयमित्यर्थः // 15 // ___एवमपि स्वपक्षद्रोही कश्चित् यः साध्यो न कथमपि भवितुमर्हति तं प्रति क उपायः येन संकथा न प्रतिबनीयादित्यत आह कृत्येषु नादरविषक्तविलोचनो स्यात् तत्संकथाप्रणिहितोपहतास्तु साध्याः / युक्तोपनीतपरिहासमुखांश्च कुर्वन् __ पक्षद्विषा परुषयेत् सदसि प्रधानम् // 16 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy