SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 200 दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिशिका / अभूवन्निति सहृदयहृदयानन्दोल्लासककथानकैरुदारमतेमनोविमोदनं विधेयं, तत उदारमतिरपि स्वपक्षानुकूलतामञ्चतीत्यर्थः // 13 // उद्धतोऽपि पुरुषो यथासाध्यो भवति तथोपदर्शयतिआस्फालयन् दुरितसूचनधीरहस्तैः वाक्यान्तरेषु विकिरन् पुरुषः स्फुलिङ्गैः / स्वच्छश्रृंवा कृतकरूषितविस्मयेन। छिन्नस्मितैरविनयोत्तर एव कार्यः // 14 // आस्फालयन्निति / “दुरितसूचनधीरहस्तैरास्फालयन् वाक्यान्तरेषु स्फुलिङ्गविकिरन् पुरुषः छिन्नस्मितैः स्वच्छ वा कृतकरूषितविस्मयेन अविनयोत्तर एव कार्यः' इन्यन्वयः। दुरितसूचनधीरहस्तैः दुरितस्य स्वगतपापस्य सूचनं सूक्ष्मतया ज्ञापनं तत्र धोराः पटवो दुरितसूचनधीरास्ते चैते हस्ताः कराश्च दुरितसूचनधौरहस्ताः वामदक्षिणमेदेन हस्तस्य द्वैविध्येऽपि बहुवचनं व्यापारबाहुल्यज्यापनार्थभूतैः, आस्फालयन् समन्तात् पोडनं कुर्वन् अन्योऽन्यहस्ताभिघर्षणं शब्दजनकाभिघातलक्षणं कुर्वन्निति यावत्, वाक्यान्तरेषु प्रारब्धकथैकवाक्योत्तरद्वितीयवाक्यपूर्ववर्तिसमयेषु, स्फुलिङ्गैः परितापजनकाग्निकणसदृशैः धिग जाल्मपुरुपापसदेत्यादिवचनैः, विकिरन् सभ्यजनहृदयावनिं व्याप्नुवन् , पुरुषः उद्धतो जनः, छिन्नस्मितैः छिन्नं विनष्टं स्मितमिषद्धसनं येषां ते छिन्नस्मिताः यत्किञ्चिद्धसनविगतमुखा जनाः तैः, स्वच्छभ्रवा स्वच्छभ्रकुटीयुगलेन, कथंमूतेन तेन, कृतकरूषितविस्मयेन कृतकः कल्पितश्चासौ रूषितश्च कोपाकलितः कृतकरूषितः विस्मयो यस्य स कृतकरूषितविस्मयस्तेन कल्पितरोषविस्मयाकलितेन स्वच्छभ्रवेत्यर्थः, अविनयोत्तर एव विनयस्याभावोऽविनयं तदेवोत्तरं यस्थ सोऽविनयोत्तरः, अविनयफलभागी स पुरुषः एव, कार्यः कर्तव्यः, सभापत्याशामासाद्य दण्डनीयः स इति भयादनिच्छतोऽपि तस्य साध्यता स्यादेवेत्यभिसन्धिः // 14 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy