________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिशिका / 199 विद्वानप्ययं विद्यामदेन मत्तः, अयं शिष्य-प्रशिष्यपरिवारैः समुच्छ्रितः अयं गर्वित इत्येवं मदसमुच्छ्यगोपेतानि वचनानि मदसमुच्छ्यगर्वितानि, उक्त्वा कथयित्वा तस्य प्रसिद्धार्थकस्तच्छन्दः, तत्रैव लोकप्रसिद्धस्य कस्यचित्सभापतेः मध्यस्थस्य वा, नाम्नाऽपि नाममात्रेणापि, भराकुञ्चितं यथा स्यात्तथा, उच्छवसन्ति उच्छवासं कुर्वन्ति यत्र यद् योग्य तत्र तदुचितक्रियाविदग्धो न सभ्यानामुपहसनीयो भवप्तीत्यसिभन्धिः // 12 // सभायां केनोपायेन के साध्या इत्याकाङ्क्षायामाह लोकप्रसिद्धमतयः श्रुतगूढवादैः ___ साध्याः श्रुतैकरुचयस्त्वपि लोकचित्रैः / सामान्यदुर्बलविनिश्चितसंकथाभि मानप्रवासनमुदारमतेविधेयम् // 13 // लोकप्रसिद्धमतय इति / अत्रान्वयः सम्मुखीनः / लोकप्रसिद्धमतयः लोके प्रसिद्धा मतिर्येषां ते लोकप्रसिद्धमतयः यान् हालिकोऽपि जानाति इमे मतिमन्त इति लोकप्रसिद्धमतित्वं च लोकोपयुक्तव्यावहारिकपदार्थाभिज्ञत्वेन वृद्धपरम्परागतकथानकाद्यभिज्ञत्वेन वा, प्रायस्ते मूढा विचारानभिज्ञा भवन्तीत्यतः, श्रुत... गूढवादैः श्रुते सिद्धान्ते गूढाः स्थूलमत्वगोचरा ये वादास्तैः साध्याः स्वपक्षानुकूलत्वेन व्यवस्थापनीयाः मनोज्ञसिद्धान्तगूढवादास्तत्पक्षसम्मुखास्त इति, श्रुतैकरुचयस्त्वपि श्रुते आगमे एका अद्वितीया रुचिर्येषां ते श्रुतैकरुचयः निरन्तरश्रुताभ्याससमासा-. दितश्रुतगूढार्थतत्त्वज्ञानाः तेऽपि पुनः, ते श्रुततत्त्वविचारैकरसिका लोकप्रसिद्धकथानकादिकं नावगच्छन्तीति, लोकचित्रैः लोकप्रसिद्धचित्रकथानकादिभिः, साध्या भवन्तीत्यर्थः, उदारमतेः औदार्यमतिशालिनः पुरुषस्य, सामान्यदुर्बलविनिश्चितसंकथाभिः सामान्येनानिर्धारितविशेषेण ये दुर्बलाः कुलजातिनामादिभि: विशेषतोऽपरिचिता दुर्बलास्तेषां विनिश्चिता याः संकथाः तद्वृत्ताधवबोधककथानका ताभिः, मानप्रवासनं मानापनोदनं, विधेयं कर्तव्यम्, किमिति परिमित-- विद्यादिभिरभिमानं कुर्वन्ति भवन्तः भवादृशा अन्येऽप्येवंविधा विगिलितमाना: