SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ MAAN 198 दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / अभिसंदधीत” इत्यन्वयः। यथा येन प्रकारेण, उक्त प्रतिपादितं, अक्षरपदं अक्षराणां पदानां च समाहारोऽक्षरपदं तत्, प्रतियोजयन्ति स्वबुद्धिमाहात्म्यात् येनैव प्रकारेण यान्यक्षराणि पदानि चाभिहितानि तेनैव प्रकारेण न तु व्यत्ययेनान्वयबोधार्थ समभिव्याहृतानि कुर्वन्ति, जनाचरणैः जनेषु आसमन्ताचरणं प्रचारो येषां तानि जनाचरणानि तैः जनाचरणैः लोकप्रसिद्धैः, वचोभिः वचनैः, उद्वहन्त्यपि उद्वहनं उपढौवनं कुर्वन्त्यपि, यदेतद्वचनं शास्त्रेऽभिहितं तल्लोकेऽपि प्रसिद्धमिति सर्वतो व्यवहरन्त्यपि, ये पण्डिताः, तान् पण्डितान्, वाक्यप्रयोजनजडान् वाक्यस्य यत्प्रयोजनमत्वविशेषावगमनं तद्वारा प्रवृत्त्यादिकं च तत्र जडान् तदनभिज्ञान् , च पुनः, सद्भावरिक्तमनसः सन् समीचीनो यो भावः वाक्यप्रयोक्तुरर्थविशेषावबोधविषयकं तात्पर्य तेन स्वविषयकज्ञानजनकत्वसम्बन्धेन रिक्तं शून्यं मनोऽन्तःकरणं येषां ते सद्भावरिक्तमनसस्तान्, सविस्मितः कथमेतादृशा अपि पण्डिता वाक्यस्य प्रयोजनं न जानन्ति वक्तु. स्तात्पर्य च नावगच्छन्तीत्येवं विम्मितः सन् , अभिसंदधीत स्वपक्षसम्मुखीकरणमभिसन्धानमिति स्वपक्षसम्मुखान् कुर्वीतेत्यर्थः // 11 // मूर्खबजेष्वनुमतप्रतिभाविकारान् विद्वत्सदस्सु निरपेक्ष्य हताविमानाः / उक्त्वा चिरं मदसमुच्छ्वायगर्वितानि नाम्नाऽपि तस्य भयकुञ्चितमुच्छ्वसन्ति // 12 // मूर्खबजेष्विति / “मूर्खबजेष्वनुमतप्रतिभाविकारान् उक्तवा, विद्वत्सदस्सु निरपेक्षहताभिमानाः चिरं मदसमुच्छयगर्वितानि उत्तवा तस्य नाम्नापि भयकुञ्चितमुच्छ्वसन्ति' इन्यन्वयः / मूर्खवजेषु मूर्ख समुदायेषु, अनुमतप्रतिभाविकारान् कस्यचिद्वचनेऽनुमतं युक्तमिदं वचनं तवेत्येवमनुमतं कस्यचिद्वचने प्रतिभा शास्त्रमनधीयानस्य तवेयमपूर्वा प्रतिभा यथेत्थं विचारगर्भ वचनम् , कस्यचिद्वचने विकारमहो साधारण जनानां भयोत्पादकं तवेत्यादिकम्, उक्त्वा कथयित्वा, तथा विद्वत्सदस्सु विदुषां सभासु, निरपेक्ष्य कस्यचिदपेक्षामकृत्वा, हताभिमानाः हतोऽभिमानोबुद्धयायहङ्कारो येषां ते हताभिमानाः सन्तः, मदसमुच्छयगर्वितानि उक्तवा
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy