________________ 197 दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / कथायां कर्त्तव्यमुपदर्शयतिदुनीतमुन्नयति सूक्तमपक्षपातैः निस्तयन् शठविदग्धमलङ्करोति / भग्नाभिसन्धिरपि यानि कथान्तराणि प्रश्नच्छलप्रहरणोऽयमवन्ध्यविघ्नः // 10 // दुर्भातमिति / "सूक्तं अपक्षपातींतमुन्नयति शठविदग्धं निस्तयन् अल करोति, भग्नाभिसन्धिरपि, यानि कथान्तराणि अयमवन्ध्यविघ्नः प्रश्नच्छलप्रहरणः" इत्यन्वयः / सूक्तं रसभावालङ्कारस्तुत्यादिभितं वचनं, अपक्षपातैःपक्षपातरहितैः स्वघटकवचोभिः, दुर्नीतं दुःखेन मार्गे नेतुं शक्यं जनम् , उन्नयति उन्नतं करोति सन्मार्गस्थितं विदधाति, शठविदग्धं शठः सज्जनद्रोहकारी चासौ विदग्धश्च शठविदग्धस्तम् , निस्तर्जयन् नितरां तर्जयन् भर्त्सयन् सूक्तं, अलंकरोति तर्जनात्मकमपि सूक्तं शठस्यापि मनः पीडयतीति, भग्नाभिसन्धिरपि परस्परमतखण्डनेन भग्नयोस्त्रुटितस्नेहतन्तुकयोरपि वादि-प्रतिवादिनोः अभिसन्धिरपि अभितोऽन्योऽन्यानुस्यूतप्रेमलक्षणसन्धानं यस्य सोऽभिसन्धिः सोऽपि सूक्तम् , यत्र वादी प्रतिवादी वा प्रश्नादिकं करोति तत्र तदन्यतरस्योत्तरास्फूर्ती जनमनोरञ्जनानि, यानि कथान्तराणि, अयं कथान्तरलक्षणः, अवन्ध्यविघ्नः अवश्यप्रस्तुतकथाविच्छेदकारी विघ्नः, प्रश्नच्छलप्रहरणः प्रश्नस्य वादि-प्रतिवाद्यन्यतरकृतस्य छलस्वरूपः प्रहरणो विनाशकास्त्र विशेष इत्यर्थः // 10 // सद्भावरहितान्तःकरणानपि विदुषो निजमतानुकूलान् विदधीतेत्याहउक्तं यथाक्षरपदं प्रतियोजयन्ति प्रत्युद्वहन्त्यपि जनाचरणवचोभिः। सद्भावरिक्तमनसश्च सुविस्मितस्तान् वाक्यप्रयोजनजडानभिसंदधीत // 11 // उक्तमिति / “यथोक्तमक्षरपदं प्रतियोजयन्ति जनाचरणैर्वचोभिः प्रति उद्वहन्त्यपि ये, तान् वाक्यप्रयोजनजडान् सद्भावरिक्तमनसश्च सुविस्मितः सन्