________________ 196 दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिशिका / क्षेपः प्रक्षिप्तोऽयम् इति एवं दिशा, अविशदागमतुण्डबन्धः न विशदः स्पष्टार्थः अविशदः, अविशद आगमो यस्य स अविशदागमस्तस्य पुंसस्तुण्डस्य मुखस्य बन्धः वाक्प्रवृत्त्यभावः, उक्तदिशा स्पष्ट आगमानभिज्ञः पुमान् सभायां मूकीभूय एवावतिष्ठत इत्यर्थः // 8 // आगमाभिज्ञास्तु नवं पृष्टाः सन्तो मूकीभवन्ति किन्तु समीचीनमुत्तरं वितरन्त्येवेति तान् प्रत्याह किंस्वित् कथंस्विदिति साध्यनिगूढवाचः सिद्धान्तदुर्गमवतार्य विनोदनीयाः / धीरस्मितैः प्रतिकथागुणदर्शनश्च छमानवस्थितकथा हि पिबन्ति तेजः॥९॥ किंस्विदिति / किंस्वित् न सर्वमित्थं किन्तु किञ्चित् किमपि, कथंस्विद् न सर्वथैवेत्थं किन्तु कथञ्चित् केनचिदपेक्षयैवम् , इति एवं प्रकारेण, साध्यनिगूढवाचः साध्ये स्थापनीये स्वपक्षे निगूढं नितरां गूढं सूक्ष्मबुद्धिगम्यतात्पर्य वचः वचनं येषां ते साध्यनिगूढवाचो विद्वांसः, सिद्धान्तदुर्ग सिद्धान्त एव जैनराद्धान्त एव दुःखेनातिपरिश्रमेणाधिगन्तुं शक्यत्वाद् दुर्गस्तम् अथवा सिद्धान्तस्य जैनागमस्य गुरूपासनमन्तरेणैव मानममन्दमतयोऽन्यतैर्थिका वा सूक्ष्ममतयोऽपि वयमपि जैनागमवेत्तार इत्यभिमानमुदहेयुः शिष्यान् वाऽध्यापयेयुरिति बुद्धथा सन्निवेशितो यो ग्रन्थग्रन्थिलक्षणो दुर्गस्तं, अवतार्य अवतारयित्वा, धीरस्मितैः तत्रावतारिताः सन्तो यथावत् तदर्थमनवगच्छन्तः शून्यहृदया इवावभासमाना इति धीराणां किञ्चिन्मुखविकसनलक्षणे यद्धासैः, प्रतिकथागुणदर्शनैश्च सिद्धान्तोक्कानेककथासाधारणगुणाविर्भावनश्च, विनोदनीयाः मानन्दनीयाः, एतावता का नामेष्टसिद्धिरित्यत आह-हि यतः, छद्मानवस्थितकथाः छद्मना कपटेन माययाऽनवस्थितां अविश्रान्तां प्रवाहानवच्छिन्नां कथां तत्तद्विशिष्टपुरुषादिचरितवर्णनां, तेजः परं प्रति प्रभावं, पिबन्ति मधुरतत्कथापरम्पराश्रवणतोऽत्यानन्दनिमग्नाः सन्तः स्वकर्तव्यपरम्पराभवासमा एवोपजायन्त इति निस्तेजस्कास्ते वादिनो ऽनुकूला एवेत्यभिसन्धिः // 9 //