________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / 195 स वादी, कृतपौरुषोऽपि स्वपक्षस्थापने कृतपराक्रमोऽपि, आपीड्यमानसमय आसमन्तात् पीड्यमानः विसंस्थुलं क्रियमाणः समयः अनेन नियमेन वादिना वक्तव्यमनेन च नियमेन प्रतिवादिना वक्तव्यमिति कथा नियमबन्धो येन स आपीड्यमानसमयः, प्रतिमानवत्सु प्रतिभाशालिविद्वद्गणेषु सत्सु, उच्चैःशिरः सन् , न वदति वक्तुं न शक्नोतीत्यर्थः // 7 // यः कश्चिद् वादी प्रतिवादी वा न यथावदागमार्थभवगच्छति अनधीतागमो वा तस्य प्रतिपक्षेण यथामुखबन्धनं क्रियते तथोपदर्शयति-- नावैमि किं वदसि कस्य कृतान्त एष सिद्धान्तयुक्तमभिधत्स्व कुहैतदुक्तम् / ग्रन्थोऽयमर्थमवधारय नैष पन्थाः क्षेपोऽयमित्यविशदागमतुण्डबन्धः // 8 // नावैमीति / "किं वदसि न अवैमि, एष कस्य कृतान्तः सिद्धान्तयुक्तमभिधत्स्व, एतत् कुह उक्तम्, अयं ग्रन्थः, अर्थमवधारय, एष पन्थाः न, अयं क्षेपः, इत्यविशदागमतुण्डबन्धः' इत्यन्वयः / हे विद्वन् ! त्वं किं वदसि किं कथयसि, तन्नाहं अवैमि अवगच्छामि, तस्माद् वाक्यान्तरेणोक्तमर्थ स्पष्टं प्रतिपादय यथाऽहमवगच्छामि तथा प्रतिपादयितुं न शक्नोषि चेन्न तत्त्वत एतदर्थाभिज्ञोऽसि किन्तु यतः कुतश्चिच्छतं शब्दमात्रमेव प्रलपसि इत्यभिसन्धिः। एवमग्रेऽपि एषः त्वया प्रतिपादितोऽयमर्थः कत्य जैन बौद्ध-कापिलादीनां मध्याद् कस्य तान्त्रिकस्य, कृतान्तः सिद्धान्तः, सिद्धान्तयुक्तं त्वं यन्मतानुयायो तदीयसिद्धा. न्ताकलितम्, अभिधत्स्व कथयस्व, अन्यथाऽसिद्धान्तदोषनिगृहीतो भविष्यसि, एतत् यत् त्वं कथयसि तत्. कुह कुत्र कस्मिन् ग्रन्थे, उक्तं अभिहितं, ग्रन्थानभिधाने स्वकपोलकल्पितोऽयमर्थो न श्रद्धेय इत्यभिसन्धिः / अयं ग्रन्थः यस्मिन् प्रन्थे इदमुक्तं स ग्रन्थोऽयम् एवं यदि पृष्टः सन् ब्रूयात् तदा, अर्थमवधारय अस्य ग्रन्थस्य त्वदुक्त एवार्थोऽन्यो वाऽर्थस्तं निष्टङ्कय, तदुक्त एवार्थ इत्यर्थनिष्टङ्कनेनेत्याह-नैष पन्थाः एष त्वदुक्तः पन्था अर्थनिर्णयमार्गो, न नैव, अथवा त्वदुक्तं ग्रन्थान्तर्गतमेव न भवति अपि तु केनचित् स्वपक्षसिद्धये, अयं