________________ 154 दिवाकरकृता किरणावलीकलिता सप्तमी द्वाविधिका / वैलक्ष्यविस्मृतमदान् द्विषतः स सूक्तः प्रत्यानयन् परिजनीकुरुते सदस्यान् // 6 // _ वादास्पदमिति / “यः यथोपनीत वादास्पदं प्रतिवचश्च स्मृतिपथः आरोग्य प्रतिसंविधत्ते स सूक्तैः वैलक्ष्यविस्मृतमदान् द्विषतः प्रत्यामयन् सदस्यान् परिजनीकुरुते' इत्यन्वयः / यः कश्चिद् वादी, यथोपनीतं येन प्रकारेण मध्यस्थेनोपदर्शितं, वादास्पद विप्रतिपत्तिविषयं जगतः क्षणिकत्व-स्थैर्यादिकं, प्रति. घचश्च प्रतिवादिनो वक्तव्यं च, स्मृतिपथः स्मृतिमार्गात्, आरोग्य विवादास्पदमिद अत्रेदं प्रतिवादी स्वीकरोति तस्य स्वपक्षस्थापने इयं युक्तिः मत्पक्षखण्डने चेयं युक्तिरिति सर्व स्मृतिमार्गेध्वानीय, प्रतिसंविधत्ते प्रतिविधान कुरुते, स वादी, सूक्तैः मधुरवचनादिभिः, द्विषतः शत्रुन् , वैलक्ष्यविस्मृतमदान् वैलक्ष्येण वादिनो दाक्षिण्यादिगुणेन विस्मृतो मदो येषां ते वैलक्ष्यविस्मृतमदास्तान्, प्रत्यानयन् शत्रुन् वैलक्ष्यविस्मृतमदान् कुर्वन् सन् , सदस्यान् सभास्थितजनान्, परिजनीकुरुते, अपरिजनं परिजनं करोतीति परिजनीकुरुते सर्वेऽपि सदस्यास्तस्य परिजनाः भवन्तीत्यतो विजयते स वादीत्यर्थः // 6 // वादिनः षाड्गुण्यमुपदर्य तद्वैपरीत्यमुपदर्शयतिपूर्व स्वपक्षरचनारभसः परस्य वक्तव्यमार्गमनियम्य विज़म्भते यः। आपीड्यमानसमयः कृतपौरुषोऽपि नोच्चैःशिरः स वहति प्रतिमानवत्सु // 7 // पूर्व स्वपक्षरचनेति / “यः परस्य वक्तव्यमार्गमनियम्य पूर्व स्वपक्षरचनारभसो विज़म्भते स कृतपौरुषोऽपि आपीज्यमानसमयः प्रतिमानवत्सु नोच्चैःशिरो वदति” इत्यन्वयः / यः कश्चिद् वादी, परस्य प्रतिवादिनः, वक्तव्यमार्गम् वक्तव्यस्य वचनीयस्य मार्ग पन्थानम्, अनियम्य नियमनमकृत्वा, पूर्व प्रथमतः, स्वपक्षरचनारभसः स्वपक्षस्य स्वाभिमतस्य रचना निर्माणं तत्र रभसः झटिति प्रवृत्तिर्यस्य स स्वपक्षरचनारभसः, विजम्भते विशेषेण चेष्टते,