________________ दिवाकरकृता किरणावलीकलिता सप्तमी द्वात्रिशिका। 193 भावेन भक्तिभावेन मधुरं मनोहरं भावमधुरं तेनार्पिता समर्पिता भावमधुरार्पिता, तया भावमधुरापितया, दृष्ट्या नयनेन, आभाष्य संभाषणं कृत्वा, सम्भाषणे तान् प्रति स्वपक्षपातित्वं ख्यापितं स्यादतो दृष्टयैव विलक्षणया तथा पश्यन्ति यथा सम्पादिता इव मान्या भवन्तीति नान्ते तत्प्रतिकूलतां ते गच्छन्तीत्याशयः, विनेयान् अन्तेवासिनः, निवर्तितया प्रागभिमुखीभूता तदनन्तरमेव विमुखीभूता निवर्तिता तया, दृष्ट्या नयनेन, अवसाद्य च शास्त्रार्थोद्यमात् प्रच्याव्य च, महान्तं मयि प्रतिवादिविजयसमर्थे वक्तरि सति भवतोऽवस्थानमात्रमावश्यक न न्यूनगुणेन सह वादो युक्त इति भावमधुरार्पितदृष्टिसम्भाषणतोऽवबोध्य, विनेयान् वादोद्यतानपि परवादिपराभवासमर्थान् जानन् नेमे मदीयपक्षं यथावद व्यवस्थापयि समर्था इत्येषां पराजये ममैव पराजयो लोके ख्यापितः स्यात स्वयं वादभीतोऽयं शिष्यद्वारैव स्वपक्षस्थापनं चिकीर्षतीत्ययोग्यता वा स्वस्य ख्यापिता स्यादिति विनेयावसादनं युक्तम्, परस्य प्रतिवादिनः, मनः अन्तःकरणम्, अभिभूय अहमस्याग्रतः स्वपक्षस्य स्थापनमेतत्पक्षस्य खण्डनं करिष्यामि नवेत्यादि शङ्काकान्तं कृत्वा, तथा वाक्-शरीर-नयनादीनां स्वस्वक्रियापाटवं प्रकटयति यथा तद् दृष्ट्वा निरुक्तशङ्काक्रान्तत्वात् तति वादिनो मनोऽभिभूतं स्यादिति, प्रतीतमुखशब्दं प्रतीतश्चासौ मुखशब्दश्च प्रतीतमुखशब्दस्त, प्रतीतः मध्यस्थप्रतिवाद्यादिप्रसिद्धो न तु कोशादित एव विज्ञेयः, मुखशब्दः मुखेनैवोच्चार. यितुं शक्यः कर्णप्रियो वा, एवंविधम्, उपस्थितार्थम् श्रवणानन्तरमेवोपस्थितः स्मृतिविषयोऽर्थो वाच्यो यस्य स उपस्थितार्थस्तं, नोच्चैः नात्युच्चस्वरेण यावता तत्रत्यानां कर्णगोचरो भवति ततोऽप्यधिकतरस्वरेण कारुन्तुदेन, न मन्द, नातिसूक्ष्मस्वरेण, येन निकटस्थितानामपि जनानां श्रवणं न भवेत्, किन्तु समस्वरेण, ब्रूयात् स्वपक्षं परपक्षखण्डनं वाऽभिदध्यादित्यर्थः // 5 // वादिषाड्गुण्यं दर्शयति... वादास्पदं प्रतिवचश्च यथोपनीत मारोप्य यः स्मृतिपथः प्रतिसंविधत्ते /