SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 192 दिवाकरकृता किरणावलिकलिता सप्तमी द्वात्रिंशिका / यदि सभापतिर्नृपो दक्षिणप्रकृतिर्भवेत् तदाऽन्येषां विपक्षपक्षपातित्वेऽपि न काचित् क्षतिरित्याह सौम्यः प्रभुर्यदि विपक्षमुखाः सदस्याः स्युस्तत् साधुरेव गमयेत् परिभूय शेषान् / तस्मिन् स्वभद्रचरितेऽप्युचितः प्रसादः सत्कृत्य विग्रहवचःस्मितं निहन्यात् // 4 // सौम्यः प्रभुरिति / यदि सौम्यः प्रभुः अवामप्रकृतिः सभापतिर्नृपो भवेत् , सदस्याः सभास्थिता जनाः, विपक्षमुखाः विपक्षप्रधानाः परपक्षपातिनः, स्युः तत् तदा, शेषान् विपक्षमुखान् अन्यान्, परिभूय तिरस्कृत्य, साधुरेव यः कश्वित् साधुः स एव, गमयेत् अस्य पक्षः समीचीन इत्ययं विजयी, अस्य पक्षस्तु न समीचीन इत्ययं पराजित इति प्रतिपादयेत् , स्वभद्रचरितेऽपि कल्याणजनकचरणशालिन्यपि, तस्मिन् साधौ, उचितः योग्यः, प्रसादः प्रसन्नस्वभावः, सत्कृत्य सम्मानं कृत्वा, विग्रहवचःस्तिमित परेण सह शास्त्रार्थलक्षणयुद्धस्वरूपं यत्परमतखण्डनात्मकं वचनं तेन स्तिमितं जडीभूतं वादिनं, निहन्यात् विशेषणस्य विनाशविशिष्टस्य विनाश इति जडत्व. नाशाज्जडीभूतवादिनाश इत्यजडो वादी तदानीं संवृत इत्यर्थः // 4 // सभायां कथं वक्तव्यं वादिनेत्याकाङ्क्षायामाहआभाष्य भावमधुरार्पितया कृतास्त्रान् दृष्टयाऽवसाद्य च निवर्तितया विनेयान् / ब्रूयात् प्रतीतमुखशब्दमुपस्थितार्थं नोच्चैर्न मन्दमभिभूय मनः परस्य // 5 // आभाष्येति / 'कृतास्त्रां' इत्यस्य स्थाने 'कृतास्तान्' इति पाठो युक्तः / "कृतास्तान् भावमधुरार्पितया दृष्टया आभाष्य, विनेयान् निवर्तितया दृष्टया भवसाद्य च परस्य मनोऽभिभूय प्रतीतमुखशब्दमुपस्थितार्थ नोच्चै मन्दं ब्रूयात्" इत्यन्वयः। कृतास्त्रान् कृतं परवादिपराजयार्थ निष्पन्नं शास्त्रलक्षणमस्त्रं येषां, तान्
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy