________________ दिवाकर कृता किरणावलीकलिता सप्तमी द्वात्रिशिका। 191 सभायां वादिविधेयमुपदिशतिप्राक् तावदीश्वरमनः सदसश्च चक्षु. मन्तव्यमात्मनि परत्र च किं प्रकारम् / यद्यात्मनो हि परिहासजयोत्तरं स्या दुक्तोपचारचतुरः प्रतिभोऽन्यथा तु // 3 // प्राक् तावदिति / तावदिति वाक्यालङ्कारे, प्राक् पूर्व, आत्मनि स्वस्मिन्, परत्र च प्रतिवादिनि च, ईश्वरमनः सभापते राज्ञो हृदयं, किं प्रकारं अस्य वादिनो जयो भवतु प्रतिवादिनश्च पराजयो भवत्वित्यादि कामनासहितम् , उतास्य वादिनः पराजयो भवतु प्रतिवादिनश्च जयो भवन्वित्यादिकामनासहित चेति तर्कणीयमिति शेषः, च पुनः, आत्मनि परत्र च सदसः सभाव्यवस्थितजननिकरस्य, चक्षुः दृग्, किं प्रकारम् -वादिनि प्रसन्नं, प्रतिवादिनि च क्रूरम्-वादिनं प्रसन्नदृष्ट्या पश्यतीति यावत्, वादिनं करदृष्टया पश्यति, प्रतिवादिनं च प्रसन्नदृष्ट्या पश्यतीति वितर्कणीयम् , आत्मनि परत्र च मन्तव्यं किं प्रकारम्, ईश्वरस्य सदसश्च वादिनि प्रतिवादिनं च कीदृशं मन्तव्यं वाद्ययं प्रौढप्रतिभाशालीति नूनमस्य जयः प्रतिवाद्ययं मन्दमतिर्नियतोऽस्य पराजय इत्येवं रूपमेतद्विपरीतं वेति तर्कणीयम्, हि यतः, यदि आत्मनः वादिनः, परिहासजयोत्तरं स्यात् ईश्वरमनः-सदसश्चक्षुमन्तव्यं चेति सम्बध्यते, परिहास-जयावुत्तरं उत्तरकाले यस्य तत्परिहासजयोत्तरं भवेत्, उत्तर काले परिहासाभिमुखं जयाभिमुख वा भवेत् तत्र जयोऽभिलषित एव किं मन्दमति प्रतिवादीकृत्यायं कथायां प्रवृत्तोऽयुक्तोऽस्यानेन सह वाद इत्यादिपरिहासोऽप्युपेक्षणीय एव, अन्यादृशस्तु परिहासो यथाकथञ्चिदुपायेन सह्य इति, अन्यथा यदि प्रतिवादिनः परिहासजयोत्तरमीश्वरमनःसदस*वक्षुमन्तव्यं च स्यात् तदा पुनः, 'उक्तोपचारचतुरः प्रतिभः' अस्य स्थाने 'उक्तोपचारचतुरप्रतिभः' इति पाठो युक्तः / तस्मादविप्लवमित्यादिनोतो य उपचारः सभाजनादेः स्वपक्षव्यवस्थित्यनुकूलत्वसम्पादनाय मितयुक्तसम्भाषणादिलक्षण उपचास्तत्र चतुरा निपुणा प्रतिभा यस्य स उक्तोपचारचतुरप्रतिभो भवेत्, येन सभास्थितजनमिकरो नास्य पराजयमुच्चै—यादित्यभिसन्धिः // 3 //