________________ 190 दिवाकर कृता किरणावलीकलिता सप्तमी द्वात्रिंशिका / . येनाध्वना येन हेतूदाहारण'ग्रुपन्यासमार्गेण, तानि धर्माद्यधिकृतानि शासनानि, विगृह्य गृहीत्वा, नृपसभासु राजमध्यस्थाचलङकृतसभासु, संपादयेत् निरुक्ततत्तदर्थसिद्धिलक्ष्मीसुशोभितानि कुर्यात् , तं मार्गम् , अभिधातुं प्रतिपादयितुम् , अविघ्नम् विघ्नरहितम् , अस्तु भवत्वित्यर्थः // 1 // वादिना सभायां यत् कर्तव्यं तदुपदर्शयतिसाध्यादृते विजयः सुलभः सदस्सु पार्श्वस्थितेषु हि जयश्च पराजयश्च / तस्मादविक्लवमनुल्वणसाधुकारं ___ सामप्रवीणगणनासमयेषु योज्यम् // 2 // साध्याहते इति : साध्यादृते साधनीयं स्वपक्षं विना, विजयः कथायां प्रतिवादनो विजयः, न नैव सुलभः सुष्टु लब्धुं शक्यः, हि यत् , पाचस्थितेषु स्वसमीपतरदक्षिण-कामभागस्थितेषु, सदस्सु सभ्येषु सत्सु, जयश्च पराजयश्च भवतः, यः स्वपक्ष स्थापयितुं न शक्नोति तस्य पराजयः इति पार्श्वस्थिताः सदस्याः प्रकटयन्ति, तस्मात् जय-पराजययोः पार्श्वस्थितसदस्य धीनत्वात् सामप्रवीगणनालमयेषु साम-दाम-दण्ड-भेदाख्यचतुविधनीतिषु सामः सान्त्वनं तत्र प्रवीणानां समर्थानां पुरुषाणां या गणना परिसंख्या तत्समयेषु तत्कालेषु, अविक्लवं मनोवैक्लव्यरहितं, अनुल्वणमू औद्धत्यरहितं यत् , साधुकारं साधुभवानास्तां साधुभवान् कथयतीत्येवं साधुशब्दप्रयोगसमलकृत वाक्यं, योज्यं योजनीयम् / अत्र 'साध्यादृते' इत्यस्य बहवो विद्वांसः सभायामुपस्थितास्तन्मध्यात् कतिपये हितमितमधुरसाधुकारादिवचनव्यवहारतः स्वमतानुकूल्येन व्यस्थापितः स्वमित्रभावमानीताः साध्या परिश्रमोपार्जितत्वेन गीयन्ते, स्ववशस्थितो जनः साध्य इति लोकप्रसिद्धिः अत एव यो यस्य हितोपदेशं न स्वीकरोति स तस्य साध्य इति व्यपदिश्यते, तथा च सध्यादृते स्वपक्षव्यवस्थापितजनाइते इत्यर्थः शोभन इत्यर्थः // 2 //