SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ वादोपनिषद्भिधा सप्तमी द्वात्रिंशिका। सन्त्येवान्ये प्रवीणाः परमतघटनालम्पटा वाकच्छटायां यस्यां नो तत्त्वचर्चा विलसति सुगमा नापि मानप्रचारः / सामान्या नो सभायां मितिनयप्रवणास्तार्किका यत्र सभ्याः सोपास्या विज्ञवर्यैः कथकपरिवृलै रित्युपेया कथाऽपि // 1 // जय-पराजयफलिका कथा न नृपसभामृते इति कथकैः सादरणीयेत्याशयेन सप्तमी द्वात्रिंशिकामारभमाणः प्रथमं तावदिदं पद्यमाह धमार्थकीर्त्यधिकृतान्यपि शासनानि न ह्वानमात्रनियमात् प्रतिभान्ति लक्ष्म्या / संपादयेन्नृपसभासु विगृह्य तानि येनाध्वना तमभिधातुमविघ्नमस्तु // 1 // धर्मार्थकीर्त्यधिकृतान्यपीति / किञ्चिच्छासनं धर्ममधिकृत्य प्रवृत्तं यत्र धर्मस्यैवोपदेशस्तदनुष्ठानार्थम् अधर्मस्य च तत् परिहारार्थमुपदेशः, किञ्चिच्छासनं तत्त्वार्थमधिकृत्य यत्र पदार्थानामेवोपदेशः एषां पदार्थानामवगमाद् निश्रेयसाधिगम इति परमपुरुषार्थमोक्षावाप्तये एषां पदार्थानां ज्ञानमावश्यकमिति, किञ्चित् तच्छासनं कीर्तिमधिकृत्य प्रवृत्तम् यत्रातिकर्कशानल्पतर्कप्रचारो बाहुल्येन शास्त्रार्थप्रवृत्तये, शास्त्रार्थेन परान् पराजित्य लोकव्यापिनी कीर्तिमाप्नोतीत्येवं धर्मार्थकीर्त्यधिकृतान्यपि, शासनानि धर्मशास्त्रार्थशास्त्रवादशास्त्राणि, 'न ह्वानमात्र इति स्थाने 'नाह्वानमात्र' इति पाठो युक्तः। आह्वान प्रतिज्ञा, तन्मात्रनियमात् तन्मात्रकरणात्, लक्ष्म्या शास्त्रशोभया, न प्रतिभान्ति न शोभन्ते, नहि प्रतिज्ञामात्रेण धर्मस्यार्थस्य कीर्तेश्च सिद्धिर्भवति, शास्त्रेण धर्मादीनां प्रतिपादनेऽपि परान् प्रति कथायामेव प्रतिज्ञाहेत्वाग्रुपदर्शनतः तेषां सिद्धिर्भवतुमर्हति, यच्छास्त्रं यमुद्दिश्य प्रवृत्तं तेन शास्त्रेण तसिद्धिरेव तच्छास्त्रस्य लक्ष्मीः सा च न प्रतिज्ञामात्रेण सम्पद्यत इत्यभिसन्धिः /
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy