________________ 186 दिवाकरकृता किरणावलीकलिता षष्ठी द्वात्रिशिका / समानधर्मोपहितमिति ! “विशेषतोऽविशेषतश्च समानधर्मोपहितं विश्वमिति शेषः इति कथा निवर्तते, अतोऽन्यथा वादिनः, न प्ररन्ति, तथा च सर्व वचः व्यभिचारवत्' इत्यन्वयः। विशेषतः विशेषरूपेण, अविशेषतश्च सामान्यरूपेण च, समानधर्मोपहितं तुल्यानन्तधर्मयुक्तं, विश्वं जगत् , यावन्तो विशेषाः यावन्ति च सामान्यानि ते सर्वेऽपि धर्माः साक्षात् , परम्परया च यथैकस्मिन् वस्तुनि तथा सर्वस्मिन्नपि वस्तुनीत्येव वस्तुनोऽनन्तधर्मवत्तया विज्ञाते सामान्यविशेषात्मनोऽशेषस्य वस्तुनो विज्ञानं, “जे एग जाणइ ते सधं आणइ'' इति वचनात् / "एको भावस्तत्त्वतो येन दृष्टः सर्वे भाव स्तत्त्वतस्तेन दृष्टाः / / सर्वे भावाः सर्वथा येन दृष्टा एको भावरतत्त्वतस्तेन दृष्टः // 1 // " इति वचनाच्च / इति स्य द्वादिप्रतिपादितानेकान्तवचनतो वस्तु विज्ञाते सति क्वचि. दपि धर्मे संशयाभावात् , कथा तत्त्वनिर्णय फलिका वादकथा जय-पराजयफलिका जल्पवितण्डान्यतरकथा वा, निवर्तते उपशान्ता भवति, तत्त्वनिर्णयफलस्य जय-पराजयफलस्य वा तावतैव निष्पत्तेः, अतोऽन्यथा उक्तस्याद्वादोपदिष्टमार्गादन्यमार्गेण, वादिनः कथकाः, न प्रतरन्ति न कथाम्बुधिपारं गच्छन्ति, तथा च वस्तुनोऽनन्तधर्मात्मकत्वे व्यवस्थिते एककधर्ममात्रप्रतिपादने, सर्व वचः, सर्व वाक्यं, व्यभिचारवत् एकैकधर्ममात्रस्यान्यधर्मनिरपेक्षस्याभावात् तत्प्रतिपत्तिरूपफलाभावे. नान्वयः व्यभिचारवत् / अनन्तधर्मात्मकवस्तुप्रतिपत्तिरूपफलस्य स्याद्वादिवाक्यप्रभवस्यकान्तवाद्युक्तवचनमात्रा भावेऽपि भावे न व्यतिरेकव्यभिचारवच्चेत्यर्थः // 30 // भनन्तधर्मात्मके वस्तुनि यो धर्मो यदपेक्षया वर्तते तं धर्म तथैव विभज्य साधयन् स्याद्वादवादी कथायां नावसीदति, किन्तु तथाधर्मेण साध्येन विशिष्टं वस्तु विद्यमानमिति स्वस्य अयं पराजयं च परस्यातनोतीन्याह यथाधर्म यस्तु साध्यं विभज्य गमयेद वादी तस्य कुतोऽवसादः। यदेव साध्येनोच्यते विद्यमानं तदेवान्यत्र विजयं संदधाति // 31 //