________________ दिवाकरकृता किरणावलीकलिता षष्ठी द्वात्रिशिका / 185 सदस्सु चोच्चैरभिनीय कथ्यते किमस्ति तेषामजितं महात्मनाम् // 29 // न गम्यत इति। " किं प्रकृतं न गम्यते उत्तरं किम् , एवं किमुक्तम् , अतोऽन्यथा किं भवेत् , उच्चैरभिनीय सद्स्सु च कथ्यते, तेषां महात्मनामजितं किमस्ति" इत्यन्वयः / किं प्रकृतं प्रस्तुतम्, न गम्यते न ज्ञायते, किमु. त्तरं प्रश्नप्रतिविधानं न गम्यते इति सम्बन्धः एवमुत्तरत्रापि, एवमुक्तप्रकारेण, किमुक्तं किमभिहितम् , अतः अस्मात् , अन्यथा अन्यप्रकारेण , किं भवेत् किं जायेत किं स्याद् वा, एवंविधेषु प्रश्नेषु सत्सु, उच्चैः उच्चस्वरेण येन तत्रत्यानां सर्वेषां यथावच्छब्दश्रवणं भवेत्, अभिनीय सदृष्टान्तमुपदर्य यैः, कथ्यते प्रतिपाद्यते , इदमत्र प्रस्तुतं गुरूपदेशं विना न ज्ञायते, अस्य प्रश्नस्येदमुत्तरं स्याद्वादतत्त्वज्ञानमन्तरेण न ज्ञायते, अनया वाचेदमभिहितं तात्पर्यावबोधं विना न ज्ञायते, अनेकान्ततत्त्वानभ्युपगमे एकान्ततत्त्वस्य बाधितत्वाच्छशशङ्गकल्पत्वात् तत्त्वकथैवोत्सीर्येत, इत्येवं यः, सदस्सु विद्वद्गणमण्डितासु सभासु प्रतिपाद्यत इति यावत् , तेषां स्याद्वादतत्त्वज्ञानानां, महात्मनाम् अजितम् अपराजितं, किमस्ति न किञ्चिदस्ति, एकान्तवादिकदम्बकमेव तैः पराजितं भवतीत्यर्थः // 29 // ननु सभायामनेकान्ततत्त्वप्रतिपादने धर्माणामनन्तत्वात् प्रत्येकं तत्प्रतिपादनं दुश्शकमिति यस्य यस्य न प्रतिपादनं तत्तद्विषयकः संशयो न निवर्तत इति तन्निवर्तनाय दिनान्तरेऽपि कथाऽवश्यकर्तव्येति विजय-पराजयव्यवस्थाऽविच्छिन्नकथाप्रवाहसन्ततौ न स्यादेवेत्यत आह समानधर्मोपहितं विशेषतो ऽविशेषतश्चेति कथा निवर्तते / अतोऽन्यथा न प्रतरन्ति वादिन स्तथा च सर्व व्यभिचारवद् वचः // 30 // [वंशस्थछन्दः]