________________ 184 दिवाकरकृता किरणावलीकलिता षष्ठी द्वात्रिंशिका / कश्चित् पुरुषः, गुणोत्तरोऽनुपमगणविशिष्टः, स पुरुषः, नः अस्माकम् , अनुशासिता अनुशासनकर्ता हितशिक्षकः, एष मनोरथोऽपि एतादृग्मनोऽभिलोषोऽपि, अल्पचेतसां अल्पबुद्धीनां, कुतः न कुतश्चिदित्यर्थः // 27 // ____ गुरुरहमित्यभिमानमात्रेण कश्चित् पुरुषो युक्तायुक्तपरीक्षां कर्तुं न विदग्धः किन्तु गुणावबोधप्रभवं गौरवं यस्य स एव गुरुः परीक्षक इत्यवबोधनायाह न गौरवाक्रान्तमतिविगाहते किमत्र युक्तं किमयुक्तमर्थतः / गुणावबोधप्रभवं हि गौरवं कुलाङ्गनावृत्तमतोऽन्यथा भवेत् // 28 // न गौरवाक्रान्तमतिरिति। “गोरवाक्रान्तमतिः अर्थतः अत्र किं युक्तं किमयुक्तमिति न विगाहते, हि गुणावबोधप्रभवं गौरवम् अतोऽन्यथा कुलाङ्गनावृत्तं भवेत्" इत्यन्वयः / गौरवाक्रान्तमतिः गौरवेण गुरुत्वेन विषयतयाऽऽ. क्रान्ता व्याप्ता मतिर्यस्य स गौरवाकान्तमतिः स्वविशेष्यकगुरुत्वप्रकारकबुद्धिमान् पुरुषः न वस्तुतो गुरुरेवासौ किन्तु गुरुत्वाभिमानीति यावत्, अर्थतः परमार्थतः, अत्र अस्मिन् , कि युक्तं किं समीचीनं, किमयुक्त किमसमीचीनमिति, न विगाहते न विशेषेणावगच्छति, हि यतः, गुणावबोधप्रभवं गौरवं अस्मिन्नयं गुण इति यो जानाति स गुरुर्भवतीति यावत् , अतोऽन्यथा तस्मादन्यप्रकाराश्रयणे, कुलाङ्गनावृत्तं भवेत् यथा माषमापनव्यापृता कुलवधूः मस्तकोपरिस्थितोत्तरीयवस्त्रेण मुखमाच्छदयन्ती परं न मुखं दर्शयति, परिधानवस्त्रान्यथा परिधानतः स्वगुह्यं न गोपयति तथा गुरुत्वाभिमानी पुरुषो बायाडम्बरेण स्वश्रद्धाजडान यथाकथञ्चिदुपदेशदानतः प्रतारयति वास्तविकगुरुत्वाभावान्नवस्तुतत्वं सम्यगुपदिशतीत्यर्थः // 28 // यदि यथावद्वस्तुतत्त्वज्ञत्वाभावान्नान्ये परीक्षकास्तहि के परीक्षका इत्याकाक्षायामाह-- न गम्यते किं प्रकृतं किमुत्तरं किमुक्तमेवं किमतोऽन्यथा भवेत् /