________________ दिवाकरकृता किरणावलीकलिता षष्टी द्वात्रिंशिका / 183 परेषाम् अन्यवादिनाम्, उपात्तदुर्बलं युक्तिदुर्बलं युक्तिरहितं युक्त्याऽनुपपन्नं वा इदं परैरुद्घोष्य मान्यं मन्तव्यम्, मम नैयायिकस्य बौद्धस्य वा वादिनः, एतत् एकान्तस्थैर्य एकान्तक्षणिकत्वं वा मन्तव्यम् , कथञ्चित् केनचित् प्रकारेण, ईक्षितुं युक्तिदृष्टयाऽवलोकयितुं, युक्तं समीचीनम् / अथ पुनः, आत्मरन्ध्राणि स्वमतछिद्राणि यानि दूषणनिकरचितानि स्वाभ्युपगतांशानि, तानि च, सन्निगृहते सम्यग् आच्छादयति, अक्षम असमर्थम्, एतत् परविकत्थनम्, कथं न कथञ्चिद् , अन्यान् अन्यवादान्, हिनस्ति च अप्रमाणतया ज्ञापयति चेत्यर्थः / / 26 // एवमियमपि पर विकत्थना न परीक्षकानुमोद्येत्याह - दुरुक्तमस्यैतदहं किमातुरो ममैष कः किं कुशलोज्झिता वयम् / गुणोत्तरो योऽत्र स नोऽनुशसिता मनोरथोऽप्येष कुतोऽल्पचेतसाम् // 27 // दुरुक्तमिति / “अस्यैतद् दुरुक्तम्, अहं किमातुरः, एषको मम, वयं कि कुशलोज्झिताः, अत्रं यो गुणोत्तरः, स नोऽनुशासिता, एष मनोरथोऽपि अल्पचेत सां कुतः” इत्यन्वयः / अस्प वादिनः, एतत् एतत् कथनं, दुरुक्तं असमानकथनं, तर्हि एतदुरुक्तता यथा परिहृता स्यात् तथा विधीयतां परिकर इत्यत आह- अहं किमातुरः यो हि व्याधिग्रस्तः स झटिति तदुपशमं विदधाति अहं न दुरुक्ततादोषलक्षणव्याधिपीडितत्वादातुरो येन तदुपशमोद्यतः स्याम् , ननु भवच्छ स्तुर्वचनं दुरुक्तं ततस्तद्द्वारा दुरुक्तता तवापि व्याधिरतस्तदपनयनं झटिति विधेयमत आह- एषको मम एष दुरुक्तवचनविधाता पुरुषः, को मम, न कोऽपि मम सम्बन्धी, नन्वेतद्ववचनमनुसरति भवान् अतो गुरुरेव भवतोऽयमत आह- वयं किं कुशलोज्झिताः अयमकुशलमेवोपदिशति तदनु। गामिनो यदि वयं स्युस्तदा कुशलोज्झिता वयं स्युः न वयं तथा नातो गुरुरसावित्यर्थः, तर्हि भवतां को हितशिक्षक इत्यत आह-अत्र अस्मिन् जगति, यः